________________
व्याप्तिपञ्चकविवृतिः ।
भेदोनास्तीत्य प्रत्ययात् । तथाच विनाष्युक्तनिवेशस्वारणसम्भव इति वाच्यम् अत्यन्ताभावत्वनिरूपितत्वस्य व्यर्थत्वापत्तेरितिचेन्न । अभावाभावस्य प्रतियोगिरूपत्वस्यापि दर्शनाद्धटस्य तादात्म्येन. साध्यतायां घटभेदाभावस्य घटानात्वकत्वे साध्याभाववृत्तिसाध्यसा मान्यीय प्रतियोगित्वाप्रसिद्ध्याऽव्याप्तेश्च घटभेदाभावस्य घटस्वरूपत्वेऽपि लाघवाद्धटभेदाभावत्वावच्छिन्नाधिकरणतानिरूपकत्वस्य घटत्वे एवस्वीकरणीयत्वात् तथाच न घटाधिकरणतामादायघटाभअंकपालत्वादित्यत्राव्याप्तिप्रसक्तिः नवात्यन्ताभावत्वनिरूपितत्ववैय
૨૮
यै यदिचात्यन्ताभावत्वभेदत्वयोर्विरुद्धत्वेऽत्यन्तामावत्वनिरूपितप्रतियोगितायाम्भेदात्मक साध्यनिरूपितत्वासम्भवः एवम् भेदाभावस्यभेदप्रतियोगितत्वावच्छेदकान्यतररुपताया एच सिद्धान्तत्वेन तादात्म्येनघदविशिष्टभेदसाध्यकस्थले भेदाभावस्योभयथैव घटरूपतया तदत्यन्ताभावस्य साध्यानात्मकत्वेनात्यन्ताभावत्वनिरूपित
साध्यनिरूपितप्रतियोगित्वाप्रसिद्ध्याऽव्याप्तिरिति
विभाव्यते साध्याभावत्वसमनियतं साध्याभावत्वावच्छिन्नम्बा यदत्यन्ताभावत्वनिरूपितं साध्यनिरूपितप्रतियोगित्वं यच्च साध्याभाववृत्तिभेदश्वनिरूपितसाध्यनिरूपितप्रतियोगितावच्छेदत्वं तदन्यतरविशिष्टसाध्याभावत्वावच्छिन्ननिरूपकत्व म्बिवक्षणीयम् | वैशिष्ट्यञ्च स्वायच्छेदकसम्वन्धावच्छिन्नत्वसम्बन्धेन एवञ्च घटभिन्नं घटत्वत्वाद्धटभिन्नं कपालत्वादित्यत्र घटत्वनिष्ठतादात्म्यावच्छिन्नघटनिष्ठसमवा. यावच्छिन्ननिरूपकत्वआदायनाव्याप्तिः भवति च तादात्म्यावच्छिन्ना घटत्वनिष्ठा निरूपकतापि तादशीत्यत्यन्ताभावत्वनिरूपितत्व प्रवेशः तथाच भेदप्रतियोगितानिरूपितसमवायावच्छिन्नावच्छेदकतैव घटभेदाभावाभावस्य घटभेदानात्मकत्वेऽपि साध्याभाववृत्तिरिति न दोषः कालिकेन घटविशिष्टस्य समवायावाच्छिन्नाभावस्य साध्यत्वे - गुणत्वादौ कालिकेन घटविशिष्टात्मकसाध्याभावस्य घटस्यापि स्वरूपतया तद्वृत्तिसाध्यनिरूपित प्रतियोगितावच्छेदकताघटक कालिकमादायाव्याव्याप्तिवारणाय भदेत्वनिरूपितत्वं प्रतियोगिताविशेषणम् । साध्यतावच्छेदकगतरूपवृत्तिसाध्यतानिरूपित संसर्गतावच्छेदकगत.
तदा
पूर्ववदेव
रूपवृत्तिस सर्गताकप्रतियोगिताकाभाववृत्तित्वप्रवेशफलं इयास्तु विशेषो यत्तत्र तदत्यन्ताभावाभावमादायात्र तदत्यन्ताभाव