________________
व्याप्तिपश्चकविवृतिः। नुयोगितावच्छेदकरूपवृत्तित्वे सति साध्यतानिरूपितसंसर्गताव. च्छेदकतात्वावच्छिन्नपप्याप्त्यनुयोगितावच्छेदकरूपहात्तसंसर्गताकप्रतियोगिताकाभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वविवक्षायाभदोषः वृत्यन्तमात्मत्वप्रकारकप्रमाविशेष्यत्वस्य कालिकेनाभावस्य स्वरूपेण साध्यताया. मात्मत्वे कालिकसम्बन्धावच्छिन्नसाध्याभावस्य स्वरूपेणाभावस्य साध्यात्मकतया तत्प्रतियोगतावच्छेदकस्वरूपेण साध्याभावाधिक. रणे हेतोवृत्याऽव्याप्तियारणाय विशेष्यत्वाभावसाध्यकस्थले तारशप्रतियोगितावच्छेदकोयो यः सम्बन्ध स्तत्तत्सम्बन्धेन साध्याभावाधिकरणत्वविवक्षणे स्वरूपकालिकाभ्यां विशेष्यत्वाधिकरणे जन्य.
आत्मत्वहेतो रवृत्याऽव्याप्तिविरहाद्वशेष्यत्व आत्मत्वप्रकारकप्रमा. निरूपितत्वनिवेशनन्तथासति तस्योभयसम्बन्धेनाधिकरणत्वाप्रास येवाव्याप्तिसम्भवः । अथात्मानुयोगिकस्वरूपसम्बन्धावच्छिन्न. साध्याभावस्यात्मत्वप्रकारकप्रमाविशेष्यतानात्मकतया तदभावस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकस्यात्मानुयोगकस्वरूपेण वृत्तिमत्साध्यस्वरूपतया तदवच्छेदकस्वरूपमादायात्मत्वप्रकारकप्रमाविशेष्यत्वाभाववानात्मत्वादित्यत्राव्याप्त्या तधटासमानकाली नघटस्य कालितकेन योऽभावस्तस्यतद्घटानुयोगिकस्वरूपेणसा. ध्यतायान्तघटत्वे स्वरूपेण साध्याभावस्योक्तघटस्वरूपतया कालिकेन तदभावस्य साध्यात्मकस्य प्रतियोगितावच्छेदकेन कालिकेन साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभावस्य तद्घटसमानका. लीनपदार्थान्तरवृत्तितया ऽतिरिक्तस्याधिकरणे हेतोवृत्याऽव्याप्त्या च रूपवृत्तिसंसर्गताकत्वमवश्यं विवक्षणीयन्तथाचात्मत्वप्रकारका प्रमाविशेष्यत्वाभावस्य स्वरूपेणाभावस्योक्तविशेष्यत्वरूपतया स्व. रूपेण तदभावस्य सर्वथा त्मावृत्तेस्साध्यस्वरूपत्वविरहेणाव्यापत्यभावात् साध्यप्रतियोगिकत्वनिवेशनम्व्यर्थमिति चेन्न कालिके न घटाभावस्य यः कालिकेनाभावस्तस्यकालिकेन साध्यतायां अ. न्यत्वहेतावव्याप्तेः साध्यताधच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकघटाभाववृत्तिसाध्यनिरूपितप्रतियोगितावच्छेदकेन कालिकेन साध्याभावाधिकरणे जन्यत्वहेतोवृत्तेः नचैमवपि रूपवृत्तिप्रतियोगिताकत्वनिवेशनस्व्यर्थमिति वाच्यम् आत्मवृत्तित्वविशिष्टोक्तविशे.