________________
२४
व्याप्तिपञ्चकचिवृतिः ।
नच तस्य निश्चयविशिष्टनिश्वयत्वनैव प्रतिबन्धकत्वं तादृशघटत्वाव
च्छिन्नविशेष्यतानिरूपिताभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वन
प्रतिबन्धकत्वसम्भवे निश्चयविशिष्टनिश्चयत्वेनप्रतिबन्धकत्वे मानाभावात् नच साध्याभावविषयत्वानवच्छिन्नत्वेन प्रतिबध्यत्वस्य वारण वन्ह्यभावस्यासाध्याभावत्वात् । सध्य प्रतियोगि काभावनिवेशे वन्हय. भावकालीनमहानसीपवह्निसाध्यकस्थले महासीय वहयभावकाली. नवह्निसाध्यकस्थले चाव्याप्त्यापत्तेरितिचेन तादृशप्रतिबन्धकतावच्छेदकताविशिष्टनिरूपकताया विववक्षितत्वात् वैशिष्टयश्च स्वाश्रयावच्छेदकसम्बन्धावच्छिनत्य स्वनिरूपितावच्छिन्नत्वसम्ब
धावच्छिन्नावच्छेदकतात्वावछिन्नपर्ण्यापत्यनुयोगितावच्छेदकरूपवृतित्वोभयसम्बन्धेन तथासत्यभावत्वावच्छिन्न प्रकारतात्वावच्छिन्नावच्छेदकतावच्छेदकतात्वावच्छिन्नपय्याप्त्यिनुयोगितावच्छेदकाभाव
स्वगतैकत्ववृत्तित्वस्यानिरूपकतायां विरहेणाव्याप्त्यसम्भवात् ।
यद्वा साध्यतावच्छेदकतात्वावच्छिन्नपर्य्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वं प्रतिबध्यतायाश्निवेशनीयम् । वृत्तित्वञ्चस्वनिरूपित प्रकारत्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतात्वावच्छिन्नपय्यदित्यनुपयोगितावच्छेदकत्वसम्बन्धेन तथाचोकप्रतिबध्यताया उक्तसम्बन्धेन वह्नित्वगतैकत्व एव वृत्तित्वन्नतु महानसीयत्ववह्नित्वगतद्वित्व इति न दोष एवम् साध्यवत्ताग्रहप्रतिबन्धकतानिरूपित प्रतिबध्यतावच्छेदकप्रकारतावच्छेदकसम्बन्धाबच्छिन्नत्वविवक्षयैवोक्तदोषो वारणीयः एतस्य च परिष्कारः स्वयमुह्य एतेन महानसीयवह्निव्यापकाभाववदभाववत्कालीन घटधस्मिक महान सीयवह्निमत्तावुद्धिप्रतिबन्धकतामादायाव्याप्तिरुक्तविवक्षायामप्यनिवार्येति निरस्तम् अथवा साध्याभावविषयत्वानवच्छिन्न त्वम्परित्यज्यैकत्ववृत्तिविशेष्यत्वावच्छिन्नत्वस्यप्रतिबध्यत्वाविशेषणतया विवक्षायाम्नकोऽपिदोष इति । नच घटभिन्नङ्कपालत्वादित्यत्र साध्याभावस्य घटत्वरूपस्य विरोधिताघटकसमवायेनाधिकरणे कपाले हेतोर्वृत्याऽव्याप्तिरिति वाच्यम् तस्य घटत्वस्वरूपत्वे ऽपि घटभेदाभावात्वावच्छिन्नाधिकरणतायाः घट एव स्वीकारेणादोषासम्भवादितिप्राहुः ॥
परंतु साध्यतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपय्यप्त्यि