________________
ध्याप्तिपश्वकवितिः। प्रकारतायामाधयत्वसम्बन्धानवाच्छन्नत्वम्बाच्यमिति वाच्यमाधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावसाध्यकस्थले तादृशाभावाभावत्यावच्छिन्नस्यान्यसम्बन्धेन सत्ताविरहेणाव्याप्त्यापत्तेः नच स्वापच्छेदकधर्मावच्छिन्नत्वम्बिहाय स्वसामानाधिकरण्यस्यैवास्तु 'सम्बम्धतेति वाच्यं घटवृत्तित्वाभावस्य कालिकसम्बन्धावच्छिन्नाभावे साध्य आत्मत्वे साध्यवाम्घटइतिबुद्धिप्रनिबन्धकीभूतायास्साध्यंघटावृत्तीतिबुद्धास्वरूपसम्बन्धावच्छिन्नघटवृत्तित्वाभावत्वावच्छि. भप्रकारतातद्विशिष्टनिरूपकतामादायाव्याप्त्यापत्तेः स्वावच्छेदकधर्मावच्छिन्नवर्माप पर्याप्तिगर्भ वाच्यमन्यथाऽनुपदोक्तस्थले म. हानसीयवह्नयादिसाध्यकस्थले च कालिकेन वह्निसामान्याभावव्याप्यमहानसीयवह्नयभाववानितिप्रतिबन्धकहानीयप्रकारतामादाया. व्याप्यापत्तेः प्रतिबध्यता च साध्यामावविषयत्वानवच्छिन्ना ग्राह्या. नातोविषयतात्वसाध्यकप्रकारतात्वे सखेती विषयतात्बाभावाविषय. तात्ववानितिबुद्धिप्रतिबन्धकस्य विषयतात्वाभावे विषयतात्वाभाव इतिज्ञानस्य या स्वरूपसम्वन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नविषयतात्वाभावत्वावच्छिन्नप्रकारता तामादायाव्याप्त्यापत्तिः प्रतिबन्धकतावच्छदकता च प्रकारतात्वावच्छिन्ना वाच्या तेन ह्रदवृत्तिवह्नयभाववान् कालिकेनपद्धतइतिज्ञामीया या हदवृत्तित्वप्रकारतानिरूपितविशेष्यतात्वेन प्रतिबन्धकतावच्छेदिकायाः कालिकसम्बन्धावच्छिन्नवयभावत्वावच्छिन्नप्रकारतायाः कालिकसम्बन्धावच्छिननिरूपकतायां सत्त्वेऽपि न वहिमान्धूमादित्यत्राव्याप्तिः प्रकारता चावच्छेकदतानात्मिकात्र विवाक्षता नातोवढेः साध्यतायान्तचह्नित्बे सद्धती वह्नयभावव्याप्यवत्तानिश्चयप्रतिबन्धकतावच्छेदकप्रतियोगित्वसम्बन्धावच्छिन्नवह्नयभावत्वावच्छिन्नप्रकारतामादायाव्याप्तिः ताशप्रकारताया अवच्छेदकतात्वेनावच्छेदकत्वपक्षेऽवच्छेदकतानास्मकत्वनोपादेयम् प्रतिबन्कता च ज्ञानवैशिष्ट्यानवच्छिन्ना ग्राह्या तेन स्वरूपेणहयवभाववान्कालिकेनवह्नयभाववानितिनिश्चयविशिष्टस्य कालिकेन वयभाववानिति निश्चयस्य प्रतिबन्धकत्वेऽपि न क्षतिः अथ महानसीपवह्निसाध्यकतधूमहेतुकस्थले वह्नयभाववदभाववत्का लीन घटोमहानसीयवह्निमानितिबुद्धी तादृशघटः कालिकेनमाहानसी. यवन्ह्यभाववानित्यस्य प्रतिबन्धकतया तदीपप्रकारतामादायाव्याप्तिः