________________
व्याप्तिपञ्चकविवृतिः ।
तेनैवाधिकरणत्व स्वीकारेणोक्तदोषासम्भवात् नचान्यतरसम्बन्धेन तदवच्छिन्नाधिकरणत्वाप्रसिद्धिरिति वाच्यम् संयोगस्वरूपसमवाया न्यतमसम्बन्धेनाधिकरणत्वस्य विवक्षितत्वादिति मन्यन्ते तेषां कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे साध्य आत्मत्वे साध्याभावत्वावच्छिन्नाधिकरणत्वाप्रसिद्ध्या कालिकसम्बन्धघटिताम्यतमसम्वन्धपादाने वह्निमान्धूमादित्यादौचाव्याप्तिर्बुरुद्ध रैवोतिषोध्यम् ॥
नव्यास्तु साध्यवत्ताबुद्धिविरोधिताघटकसम्बन्धेन साध्याभावोधिकरणत्वोक्तौ न कोऽपिदोषः । साध्यवत्तावुद्धिविरोधित्वञ्च सा. ध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपय्यपिनुयोगितावच्छेदः करूपवृत्तिप्रकारतानिरूपित कश्चिद्धम्मविच्छिन्न विशेष्यताकप्रहत्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकत्वम्बोध्यम् । नच तादृशप्रका रत्वावच्छिन्नप्रतिबध्यत्वमेवोच्यतामलं व्यापकत्वप्रवेशेनेति वाच्यम्
२२
कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाधिकरणत्वाभावसाध्यकस्थले स्वरूपेण तादशात्मत्वाधिकरणत्वाभाव गगनत्वोभयाभावबद्वह्नित्वमित्यादिनिश्चयप्रतिबन्धकतानिरूपिताया एकत्रद्वयंरीतिज्ञानसाधारणप्रतिबध्यतायास्तादृशप्रकारित्वावच्छिन्नत्वेन स्वरूपस्यापिवि रोधिताघटक सम्बन्धत्वेनाव्यायापतेः प्रतिबध्यता च साध्यतावच्छे. दकविशिष्टविषयक ग्रहत्वाव्यापिका ग्राह्या नातो वह्निमत्पर्व्वतकालीनात्मत्वाधिकरणत्वाभाव साध्यकस्थले स्वरूपसम्बन्धमादायाव्याप्तिरिति वस्तुतस्तादृशप्रतिबन्धकतावच्छेदकप्रकारताविशिष्टसाध्याभावत्वावच्छ्न्निनिरूपकत्वमवश्यं वाच्यं वैशिष्ट्यञ्च स्वावच्छेदकसम्बन्धावच्छिन्नत्वं स्वावच्छेदकी मूतधर्म्मावच्छिन्नत्वोभयसम्बन्धेन तथाच पूर्वोक्तदोषद्वयस्यासम्भवेन तादृशग्रहत्वव्यापकत्वमव्यापकत्वञ्च नवि वक्षणीयम् अतएव कालिकेन वह्नयभावव्याप्यधूमस्य कालिकेन बुद्धेः प्रतिबन्धकतया तदवच्छेदककालिकसम्बन्धावच्छिन्नसाध्याभावत्वावच्छिन्ननिरूपकताकाधिकरणत्वमादाय न दोषः निरूपकतायां सा. ध्याभावत्वावच्छिन्नत्वप्रवेशाद्धदस्य प्रतियोगितया साध्यतायां घटाभावत्वे हेतौ पटाभावः प्रतियोगितया घटवानितिबुद्धिप्रतिबन्धकीभूतस्य पटाभावे घटाभाव इति ज्ञानस्य या प्रकारता तद्विशिष्टस्व. रूपसम्बन्धावाच्छन्नाधेयत्वसम्बन्धावच्छिन्नपटा भावत्वावच्छिन्ननिरू. पकताकाधिकरणतावति घटाभावे हेतोः सत्त्वेऽपि नाव्याप्तिः । नच