________________
व्याप्तिपञ्चकविवृतिः ।
वच्छिन्नावच्छेदकतायाः स्वावच्छेदकप्रमेयत्वरूपयोः प्रमेयत्वात्मकप्रमेयत्वावच्छिन्नवृत्तितात्मकत्वेन तत्प्रतियोगिक स्वरूपेण साध्याभावाधिकरणनिरूपितप्रमेयत्वावच्छिन्न समवायसम्बन्धावच्छिन्नवृत्तित्वस्यैव सत्त्वादवव्याप्त्यापत्तेः वृत्तितात्वेन तत्प्रवेशे तु स्वनिष्ठनिरूपकता. निरूपितवृत्तितात्वावच्छिन्ननिरूप्यत्वस्य संसर्गतालाभेन प्रमेयाव च्छिन्नवृचितायामेवाधिकरणताविशिष्टत्वसत्त्वेन नाव्याप्तिसम्भव इति यद्यप्यत्रहेतुतावच्छेदकसम्बन्धावच्छिन्न हेतुतावच्छेदकावच्छिन्ननि रूपकत्वीय स्वरूपेण साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनि रूपकत्वाभावस्य लघुतरस्य व्याप्तित्वं सम्भवति तथापियथाश्रुतमुलानुरोधात्तदुपेक्षितम् ॥
३७
ननु कालिकसम्वन्धावच्छिन्नधूमत्वनिष्ठावच्छेदकताकवृत्तित्वीयस्वरूपेण वह्यभावाधिकरणनिरूपितवृत्तित्वस्य धूमे सत्त्वादव्याप्तिः हेतुतावच्छेदकताघटकसम्वन्धावच्छिन्नावच्छेदकताविवक्षयोक्तदोष. वारणेऽपि महानसीयवह्निसाध्यके समवायेन महानसीयत्वविशिष्टत्वेलाते कालिकेन धूमत्वविशिष्टहेतु केऽव्याध्यापत्तिःकालिकसम्वन्धावच्छिश्न महासीयत्वनिष्ठावच्छेदकतानिरूपितसमवाय सम्वन्धावच्छिन्नधूमत्वनिष्ठावच्छेदकताकवृत्तिताया हेतौ सत्वादिति चेन वृत्तिताया आश्रयभेदेन भिन्नतया धूमस्य कालिकेन धूमत्वाश्रयत्वेऽपि संयोगेन धूमस्य इदावृत्तित्वानपायात् एतदभिप्रायेणैव विशिष्टसत्वस्य स्वावच्छिन्नाधिकरणत्वेनैव द्रव्यत्वव्याप्यत्वं स्वीकृत्य हेतुतावच्छेदकावच्छिन्नाधिकरणत्वप्रवेशन स्विफलमाकलय्य हेतुतावच्छेदका - घटितस्य व्याप्तिरूपत्वस्वीकारो ग्रन्थान्तरे पर्यालोचनीयः अन्यथा हेतुतावच्छेदकाप्रवेशे प्रमेयत्वाद्यवच्छिन्नवृत्तितामादायासम्भवापत्तेरिति वृत्तिताया एकधर्मावच्छिन्नाया यावत्स्वावच्छेदकाश्रयेष्वेकत्वे तु हेतुतावच्छेकताविशिष्टावच्छेदकता निरूपितत्वादिरूपं हेतुतावच्छेदकावच्छिन्नत्वम्वाच्यं । वैशिष्टयश्च स्वावच्छेदकसम्वन्धाच्न स्वसामानाधिकरण्योभयसम्वन्धेन अधिकन्तु साध्यतावच्छेदकावच्छिन्नुत्वविचारवदनुसन्धेयमित्यलम् ॥
अथधूमवानवहेरित्यत्रातिव्याप्तिः । निरुक्तवृत्तित्वाभावस्य पर्व्वतीयवहृयादौ सत्त्वादिति चेन्न अनुपदोक्तवृत्तितैक्यपक्षे दोषस्यासम्भवात्पक्षान्तरे तत्रोक्ताभावस्य सवेऽपि तस्य लक्ष्यत्वमेवेत्यन्ये वह्निवे