________________
. व्याप्तिपशकविकृतिः।
शस्याशक्यतया गुरुभूतोऽपि द्वितीयकल्प आदरणीयः एवमेव हेतुतावच्छेदकावच्छिन्नत्वमपि परिष्कृतम्बोध्यम् निरूपकतावच्छेदकताया इतरवारकंपर्याप्तिनिवेशे प्रयोजनाभावादिति ॥
यदिच वह्निज्ञानत्वसाध्यके प्रकारितया वहिहेतुकस्थले वह्नित्वग. सैकत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकनिरूपकात्वस्य महानसीयत्ववलित्वगतद्वित्ववृत्तिनिरूपकताया मपि सत्त्वेन तनिरूपिता. धिकरणताकवृत्तित्वीयस्वरूपेण साध्याभावाधिकरणनिरूपितमहानसीयवह्नित्वाद्यवच्छिन्नवृत्तित्वस्य वह्निमात्रेसत्त्वादव्य तिबिधार्यतया हेतुहेतुमद्भावनच प्रकारितया महानसीयवह्निविषयकक्षाने कुतो न वहेस्सत्त्वं वह्नित्वेतरधर्मानवच्छिन्ननिरूपितप्रकारितया हेतुत्वेन तेन सम्वन्धेन महानसीयवस्सस्वमिति कुतो वा व्याप्तिरितिवाच्यं संसर्गता हि यद्यपि प्रकारितात्वेनैव तथापि वह्नित्वविशिष्टसंसो वह्नित्वेतरधर्माविच्छिन्नानिरूपितप्रकारितैव महानसीयवह्निविषयकज्ञानं प्रका. रितयावह्रिमदित्यप्रत्ययात् महामनीयवह्निमदितिज्ञानानन्तरंवाह्नञ्जा। नामीत्यनुव्यवसायाभावाश्चेति,विभाव्यते तदा हेतुताक्च्छेदकतात्वाव. च्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपेस्वावच्छेदकतात्वावच्छिन्नपा. प्स्यनुयोगितावच्छेदकत्वसम्वन्धेन वृत्तित्वमेवनिरूपकतायामुपादेयम्। ___ अथोक्तरूपवृतिनिरूपकतानिरूपितत्वेनैवाधिकरणतोपादेया अधिकरणतात्वेनतत्प्रवेशो व्यर्थ इति चेत्तस्य स्वनिरूपितत्वस्वनिष्ठाधिकरणतानिरूपितत्वोभयसम्वन्धनाधिकरणताविशिष्टवृत्तित्वलाभार्थत्वान वैयर्थ्यभिति गृहाण नचोक्तविशिष्टवृत्तित्वोपादाने प्रयोजना. भावः वह्निमान् पर्वतवृत्तित्वविशिष्टवाच्यत्वादित्यत्र साध्याभावाधिक. रणस्वरूपत्वावच्छिन्नसंसर्गतानिरूपितत्वावच्छिन्नवृत्तिताया उक्तनिरूपकतामिरूपितंसंसर्गतानिरूपितवाच्यत्वत्वावच्छिन्नदात्तत्वीयस्वरूपेण हेतौ सस्वाव्याप्तेर्वारकस्यैव प्रयोजनत्वात् नच स्वनिष्ठाधेिकरणत्वानिरूपितत्वन्ननिवेश्यमितिवाव्यम् साध्याभायाधिकरणोक्ताधिकरणतात्मकाधिकरणनिरूपितवाच्यत्वत्वावच्छिन्नवृत्तितामादायान्याप्तितादवस्थ्यादिति ।।
यतु वृत्तितात्वेनवृत्तित्वन्नोपादेयं प्रयोजनाभावादिति तम्न द्रव्य. त्यसाध्यके समवायेन प्रमेयविशिष्टस्य समवायन हेतुतायां सखेती हेतुतावच्छेदकावच्छिन्ननिरूपकतानिरूपिताधिकरणताविशिष्टप्रमेयत्वा.