________________
व्याप्तिपश्चकविकृतिः। विधया संसर्गविधया वाग्वछेदकत्वस्य निरूपितत्वम्प्रवेश्यं नतूभयमिति शङ्का निरस्ता। अथ साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्ति प्रतियोगित्वस्य वक्ष्यमाणरी. त्यावश्यविवक्षणीयतया तत्र धर्मविधया संसर्गविधयावच्छदकत्वत्वेनावच्छेदकत्वस्यानन्तर्भावेणैकविधनिवेशेनैवपूर्वोक्तनिखिलाभावार• णसंभवः संयोगिनस्समवायेनाभावीयप्रतियोगिनायामपि साक्षात्परम्परासाधारणसाध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छे दकस्वरूपसमवायसंयोगगतरूपवृत्तित्वस्य विरहात् । प्रतियोगितायां समवायस्य संसर्गविधया अवच्छेदकत्वेन स्वरूपस्य तदनवच्छेद. कत्वादिति चेन् मैवम् समवायिनस्संयोगाश्रयत्वेन साध्यतायां संयोगाश्रयस्य समवायेनाभावमादायाव्याप्ते१रुद्धरत्वात् इति ॥ ॥ । अन्यथा तु व्याप्यवृत्तिसाध्यकेत्यादि । ननु साध्यतावच्छेदकाव. च्छिन्नत्वस्य प्रवेशेऽपि महानसीयवह्नयभावस्य न वारणसम्भवः न च साध्यतानिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वं वाच्यम् वैशिष्टयञ्च स्वसामानाधिकरण्य स्वावच्छेदकसम्बन्धाव. च्छिन्नत्व स्थानवच्छेदकानवच्छिन्नत्व स्ववृत्तित्वै तच्चतुष्टयसम्वन्धेन । स्वसामानाधिकरण्यानवेशाद्वह्निमान्धूमादित्यत्र निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावमादाय न दोषः स्वावच्छेदक. सम्बन्धावच्छिन्नत्वनिवेशात् घटानुयोगिककालिकेन वह्नित्ववदभा. वमादाय वह्नित्वाश्रयवान्धूमादित्यत्र नाव्याप्तिः, स्वानवच्छेदकानवच्छिन्नत्वनिवेशान्महानसीयवाह्नवृत्तित्वविशिष्टजात्यवच्छिन्नाभावमा दाय न लक्षणासम्भवः स्ववृत्तित्वनिवेशाद्रूपत्वन्यूनवृत्तिजातिमद्वानरूपादित्यत्र निरवच्छिन्ननीलत्वादिनिष्ठावच्छेदकताकप्रतियोगिताकाभावमादाय न व्याप्यत्वानिर्वाहः एतेन साध्यतावच्छेदकाति रिक्तधनिवच्छिन्नत्वस्य विवक्षणे प्रमेयवतस्समवायेन साध्यतायां सत्वे हेती साध्यतावच्छेदकातिरिक्ताप्रसिद्धिनिवन्धनो दोषो नि. रस्तः साध्यतावच्छेदकताविशिष्टान्यघटत्वादिनिष्ठावछेदकत्वस्य प्रसिद्धत्वादितिवाच्यम् यत्र प्रतियोगिनिष्ठनानाविशेष्यतानिरूपिता परंपराऽनिरूपिता वा अवच्छेदकप्रकारता तत्रवावच्छेदकतायाभिन्नत्वेन महानसीयवह्नयभावीयप्रतियोगितावच्छेदकताया ऐक्येन तत्र विशिष्टान्यत्वविरहादव्याप्तितादवस्थ्यात् नच स्वानवच्छेदकम.