________________
व्याप्तिपश्चकविवृतिः ।
यदित्र वृत्त्यानियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे सा ध्यतावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नसम्बन्धित्वा
भाववद्धेतुतावच्छेदकसम्बन्धावच्छिन्न सम्बन्धितावच्छेदकप्रकृतहेतुतावच्छेदकस्यैव वा व्यासित्वे न दोषः अभावश्वस्वरूपसम्बन्धावचित्रअस्वाभाववश्न्निरूपित स्वरूपसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्न प्रतियोगिताक इति । एतेन स्ववृत्तिवाच्यत्ववत्त्वसम्बन्धेन घटादिसाध्यकस्थले sव्याप्तिः तत्सम्बन्धावच्छिन्नाभावस्याप्रसिद्धत्वादिति निरस्तम् स्वरुपसम्बन्धावच्छिन्नाभावस्य प्रसिद्धेरिति विभाव्यते तदात्र केचित्सम्बन्धिताया नानात्वे धूमवान् वह्नेरित्रातिव्याप्तिः पर्वतीयवह्नयादिसम्बन्धितायाउ कसम्बन्धित्वाभाववत्त्वेन तदवच्छेदकस्वस्य वह्नित्वे सत्वात् यद्धर्मावच्छिन्न सम्बन्धित्वत्वावच्छेदेनोक्तसम्बन्धित्वाभाववत्त्वविवक्षणे उक्तदोषवारणेप्युक्त सम्बन्धितात्वावच्छेद्यत्वस्य व्यापकतारूपत्वेन सिद्धान्तलक्षणापेक्षया लघुत्वाभावः अव्यभिचरितत्वस्य पारिभाषिकत्वापत्तेः उक्तस्य व्यभिचारज्ञानाप्रतिबध्यत्वेन व्याप्तिरूपत्वासम्भवश्चेति वदन्ति तन्न चारु स्वाभाववन्निरूपितसम्बन्धितावच्छेदकत्व सम्बन्धावच्छिन्नोक्तसम्बन्धित्वाभाववद्वैतुतावच्छेदकस्यव्याप्तित्वे क्तातिव्याप्तिसम्भवात् एवमुक्तपारिभाषिकत्वस्य नदोषत्वमन्यथा द्रव्यं विशिष्टसत्त्वादित्यादिस्थलीयाव्याप्तिवा रणायोक्तस्य लक्षणस्य पारिभाषिकार्थकत्वेनहेयत्वमापद्यत साध्याभाववद्वृत्तित्वस्यैव व्यभिचारत्वे समानप्रकारत्वादिनैव प्रतिबन्धकश्वे च सिद्धान्नव्याप्तरेपि तद्प्रतिबध्यतयाऽव्याप्तित्वप्रसङ्गः नच हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वमपि व्यभिचार इति नेदोष इति वाच्यं प्रतियोगिताधम्मिको भयाभावघटितकल्पस्य सिद्धाम्तत्वेन तज्ज्ञानस्योक्तत्र्यभिचारज्ञानप्रतिवध्यत्वविरहात् यदिमणिमन्त्रादिन्यायेनोक्तव्याप्तिज्ञानस्याप्युक्तव्यभिचारज्ञानप्रतिवध्यत्वं तदाप्रकृतिव्याप्तिज्ञानस्यापितत्त्वं सुघटमेव तादृशव्याप्तिज्ञानविरोधिज्ञानवि पथव्यभिचारकल्पना व प्रकृतेपि समेति
अत्रब्रूमः स्वनिष्टप्रतियोगिताकाभाववद्वृत्तित्वस्य संसर्गत्वेऽसम्भवापत्याऽवच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वस्य संसर्गत्वस्वाच्य न्तथासति गुरूभर्म्मस्य प्रतियोगितामवच्छेदकत्वे तद्रूपवानरसादित्यत्रातिव्याप्तिः तद्रूपत्वावच्छिन्नसम्बाधत्वाभावप्रतियोगितावच्छेदक
४०