________________
व्याप्तिपञ्चकविवृतिः ।
त्वस्य लाघवेन तद्यक्तित्व एव कल्पनीयतयोक्तावच्छिन्नाभाषवदृतित्वस्य तद्रूपत्वावच्छिन्नसम्वन्धित्वव्यधिकरणत्वेन तदभावस्य हेतुतावच्छेदकावच्छिन्नसम्वन्धित्वे सत्त्वात् उक्तसम्बन्धिताव्यक्तच भावनिवेशे वह्निमान्धूमादित्यत्राव्याप्तिः उक्तसम्वन्धितात्वंयद्धर्मविशिष्ट सम्वन्धिनिष्ठाभावप्रतियोगितानवच्छेदकं तद्रूपावच्छिन्नाभाववत्त्वविवक्षणे तद्रूपावच्छिन्नसम्वन्धितात्वस्य गौरवेण रूपत्वावच्छिन्नसम्वन्धितात्वविशि ष्टसम्वन्धिनिष्ठाभावप्रतियोगितानवच्छेदकत्वेन तद्रूपावाच्छन्नाभाववत्त्वस्य हेतौ सत्त्वेनातिव्याप्तिप्रसङ्गः यद्रूपावच्छिन्नाभावकूटवत्त्ववि - वक्षा च वाह्नमान्धूमादित्यादावव्याप्त्यैवानुपादेया तद्रूपावच्छिन्नाभावकूदान्तर्गतस्य तयक्त्यभावस्य धूमे विरहात् एवं वाच्यं शेयत्वादित्यादावपि साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकाव
च्छिन्नसम्वन्धित्वाभावप्रतियोगितावच्छेदकत्वस्य सम्बन्धितात्व एव
लाघवेन कल्पनीयतया तादृशसम्वन्धितात्वावच्छिन्नाभावाप्रसिद्ध्याव्याप्तिप्रसङ्गः यादगुरुधम्मस्य प्रतियोगितावच्छेदकत्वमङ्गीक्रियते त दैतस्य लक्षणान्तरत्वमेवावसेयमितिध्येयम् ॥
अथनिरूप्यानपरूकभावापन्नावेषयतात्मक साध्याभाववद्वृत्तित्यप्रकारतानिरूपितविशेष्यत्वाभावः प्रमीयविशेष्यताप्रातयागिकस्वरूप. सम्बन्धावच्छिन्नप्रतियोगिताको व्याप्तिरस्त्विति चेत्र यत्र व्यभिचारिणि साध्याभाववद्वृत्तित्वस्य न प्रमा तत्रार्तिव्याप्त्यापत्तेःनचेश्वरस्यैवप्रमासम्भवः विशकलितपदार्थावगमहत्वेनैव सर्व्वविषयकत्वोपपतो. विशिष्टविषयकत्वे मानाभावात् एवं वृत्त्यानयामकसम्बन्धस्य गुरुधर्म स्य च प्रतियोगितानवच्छेदकत्वे धीः द्रव्यत्वात्प्रमेयधूमवान्वच्हारत्यादावतिव्याप्त्यापत्तेरित्यलम्
१४