________________
व्याप्तिपञ्चकविवृतिः ।
न क्षतिः ननुकार्थका व्याप्यवृत्तिसाध्यक सद्धेतुत्वावच्छेदेनोक्तलक्षणा• सत्यमाशङ्कयोत्तरलक्षणावतारे तल्लक्षणस्योक्तावच्छेदकावच्छेदेन स. त्त्वपवसंगतिः नच तत्संभवति तद्धर्म्मस्य तत्संयोगीगुणादित्यव्यदिभिचारिण्यपि सत्त्वेन तत्राग्रिमलक्षणस्याप्यसत्वात् । नच व्याप्तिपदस्य सद्धेतावेव लक्षणासत्वार्थकत्वेन तत्समभिव्याहारवशात् स्वाधिकरणवृत्यभावप्रतियोगितावच्छेदकप्रकृतसाध्यतावच्छेदकावच्छि असाध्यकसद्धेतुत्वावच्छेदेनैव लक्षणा सत्वार्थकत्वस्योक्तवाक्ये स्वीक रणीयतया नासङ्गतिरिति वाच्यं कपिसंयोगाभाववान् गुणादित्यादिस्थलीय देतावप्युक्तसद्धेतुत्वस्य सत्त्वेन तत्राप्रिमलक्षणस्यासत्त्वादसङ्गतेस्तदवस्थानादितिचेन्न द्वितयिलक्षणस्य तादृशसद्धेतुत्वावच्छेदेन विरहस्या सत्वेन तादृशनियमभङ्गरुपाभ्यर्हितत्वमङ्गीकृत्य लक्षणान्तरावातारणपत्र तात्यर्य स्वीकारेऽसंगतिविरहात् । अव्याप्यवृ त्तिसाध्यक सद्धेतुपदेन भेदप्रतियोगितावच्छेदका तावच्छेदकतादृशसाध्यतावच्छेदकावच्छिन्नसाध्य कस द्धे तोव्विवक्षितत्वात् । स्वप्रतियो. ग्यनधिकरणत्रृत्यभावप्रतियोग्यव्याप्यवृति साध्यकसद्धेत्वर्थकत्वस्योक्तपदस्यवा विवक्षितत्वात् यद्वा निरवच्छिन्नवृत्तिकभिन्नत्वमव्याप्यवृत्तित्वं तथाचाव्याप्यवृति साध्यं यस्येत्येवविग्रह आदरणीयः एवञ्च सद्धेतावित्यत्र सन्हतुरिति कर्मधारय एवेतिन कश्चिद्दोषः ॥ केचि तु स्वप्रतियोगित्वस्त्र सामानाधिकरण्यस्वसमानाधिकरणभेदप्रतियोगि तावच्छेदकत्वैत नृतयसम्वन्धेनाभावविशिष्टत्वमव्याप्यवृत्तित्वम् कपिसंयोगाभावस्य न कपिसंयेगवन्निष्ठभेदप्रतियोगितावच्छेदकत्वमिति
३९
तस्य
स्वसामानाधिकरण्यस्वप्रतियागित्वयोर्निवेशादात्मत्वादेश्व न व्याप्यवृत्तित्वप्रसङ्ग इति प्राहुः ॥०'
""
मूले केवलान्वयीन्यभावादिति अथ स्वावच्छिन्नाभाववद्वृत्तित्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकाभाववत्त्वमेव व्याप्ति रस्तु तावतैव वाच्यं ज्ञेयत्वादित्यादिकेवलान्वयिनि नाव्याप्तिर्वाच्यत्वत्वस्योक्तसम्बन्धस्य व्यधिकरणत्वादिति चेन वृत्तिनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे धनी चैत्रत्वादित्यादावव्याप्तेः वृत्तिनियामकसम्बन्धाघटितस्वच्छिन्नाभाववद्वृत्तित्वस्य वृत्तिनियामकत्वपि वृत्यनियामकसम्वन्धघटितस्य वृत्त्यानियामकतया वृक्षः सिंस्पाया इत्यश्राव्याप्तेश्व |