________________
॥ श्रीः॥
व्याप्तिपञ्चकवि
॥ श्रीगणेशाय नमः ॥ व्याजस्वीकृतसेवया विधुरभूदग्रेसरः श्रीमता. म्मानव्याहतिकैतवावनमनादीशस्त्रिलोकीपतिः। सम्भिन्नाब्जकुलप्रसूतिविभवादम्भोजमब्जालयो यस्य श्रीमगिरिजापदाम्बुजयुगन्तत्स्यादीष्टप्रदम् ॥१॥ जगदीशकृतव्याप्तिग्रन्थव्याख्यावलम्बिनी।
विवृतिर्धर्मदत्तेन मैथिलन वितन्यते ॥२॥ *दीधितौ समारब्धेति* समीचीनभूतकालिकारम्भविषयेत्यर्थः। आरम्भश्चाद्यकृतिः, प्रकृते कृतावाद्यत्वञ्च तत्कृतिसमवायसमवेतप्रा. माण्यपरीक्षागाचरकृतिक्षणध्वंसानधिकरणक्षणवृत्तित्वमासमवेतान्त. निवेशादन्यपुरुषकृतपरीक्षायाः पूर्ववृत्तत्त्वेऽपिन क्षतिः । आरब्धत्वकथनेन प्रामाण्यपरीक्षाया वृत्तत्वनिरासेन तदुपयोगिव्याप्तिग्रहोपायप्रतिपादनार्वैफल्यशङ्का निरस्ता । समीचीनत्वञ्चेष्टसाधनत्वादिप्र. माजन्यत्वं तेन कृतेः संवादित्वलाभेन तद्विषयपरीक्षा तत्कारणव्याप्तिग्रहोपायप्रतिपादन तत्साधनव्याप्तिस्वरूपनिरूपणानां फलवत्वलामे. नोपादेयत्वव्याक्तः । अनुमानप्रामाण्यपरीक्षेति* । परमतानिराकरणपूर्वकस्वमतव्यवस्थापनम्परीक्षा । परमतं परकीयमतिविषयः अनु. मानप्रामाण्याभावः तन्निराकरणं तज्ज्ञानेऽप्रामाण्यज्ञापनं यद्वा परमतं परमतिः सा च नानुमानं प्रमाणामत्याकारिका तन्निराकरणं तत्रा. प्रामाण्यज्ञापनं तच्चासिद्ध्यायुद्भावनं तत्पूर्वकं तदुत्तरकालिकं स्वम. तमनुमानप्रामाण्यं तद्यवस्थापनमप्रामाण्यशानानास्कन्दिततगोचरज्ञानानुकूलव्यापारः । अनुमानाप्रामाण्यशानेऽसत्यप्रामाण्यज्ञाने, अ. नुमानप्रामाण्यग्रहोत्पत्तरसम्भवेन व्यापारस्य न ज्ञानजनकत्वसम्भ. व इति भवति तस्य परमतनिराकरणपूर्वकत्वम् , अनुमानप्रामाण्यम