________________
व्याप्तिपञ्चकवितिः ।
स्यापि विशेषणत्वेन स्वरूपबोधनार्थत्वात् । नच न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तत्रसम्भवतीत्येव वाच्यमिति वाच्यम् । राजपुरुषवा. नित्यत्र राजापुरुषोयत्रतिबहुव्रीहेस्सम्भवात् नचैवमपि यत्रराजाराज. सम्बन्धी पुरुषश्चास्ति तत्रमतुबाध्यस्य देशविशेषस्य बहुव्रीहे. प्र. तिपत्तिसम्भवेनानुपपत्तितावस्थ्यमिति वाच्यम् । यत्पदेन यादृशधर्मावच्छिन्नविषयताको बोधी मत्वीयसमभिव्याहतेन जायते मतुपः समभिव्याहारं विना तेन पदेन बहुव्रीहिया तादृशधर्मावच्छिन्नविषयताकयोधसम्भवे तत्पदान्मत्वर्थीयो न भवतीत्यर्थस्य विवक्षितत्वात् । तथाच राजसम्बान्धपुरुष सम्बन्धित्वावच्छिन्नविषयताकोबोधो मतुपसाभमन्याहृतेन राजपुरुषपदेन जायते बहुव्रीहिसमासेन तु राजाभित्रपुरुषसम्बन्धित्वेनैवेति न दोषः । एवञ्चारूढवानरवानिति अरश्चित्रगुमानिति चारुढवानरसम्बन्धित्वेन जरदभिन्नचित्रगोसम्बम्धिपुरुषसम्बन्धित्वेन बोधतात्पर्यण साधुरेव । बहुवाहणा स्वकर्म कारोहणकर्तृवारनरसम्बन्धिसम्बन्धित्वेन जरदभिन्नचित्रगोसम्बन्धि. नः सम्बन्धित्वेन च मत्वर्थीयार्थस्याप्रत्ययादिति । अथाऽसुब्यत इति भाष्यप्रयोगदर्शनाद्रक्तदण्डवानित्यादिलोकिकप्रयोगदर्शनादुक्तव्युत्प. त्तेः प्रायिकत्वेनात्रापि तत्क्षतेरनतिदोषत्वमिति चेदेवमप्यवृत्तमि. त्यस्यावृत्तीत्यस्य च पूर्वपदार्थप्रधानाव्ययीभावसमासत्वेन पूर्वपदार्थ. प्रधानसमासघटकोत्तरपदार्थेन समं समासाघटकपदस्यानन्वितत्कनियमेन वृत्तित्वे साध्याभाववतोन्वयस्यासम्भवो दोषः । नचोक्ता नियमे किम्मानं भूतलस्याघटमित्यत्र घटे भूतलानम्वयः । एवं सा. भग्राभाववृत्तामसिवदभ्युपगममात्रेण भूतलोपघटमित्यस्य सस्वेपि घटे भूतलस्यामन्वयः, अव्ययीभावसमासस्याव्ययत्वेपि शोभनोपकुम्ममित्यादेः प्रामाणिकत्वेऽव्ययीभाधात्मकाव्ययातिरिक्ताव्ययेकै धाब्यायिभावस्य समस्यमानत्वेन परिगणिताव्ययातिरिक्तस्याप्यव्यशोभावस्य समाससामान्यशानेण समस्यमानवस्य चाभ्युपगमनीयतया घास्तविके वा भूतलोपकुम्भमित्यादौ भूतलानन्धयः । शोभनोपकुम्भमित्यस्याप्रामाणिकत्वे उक्ताभ्युपगमे प्रयोजनविरहेण साध्याभाववतो वृत्तेरनन्वयापेक्षयाऽवृत्तमित्यव्ययी. भावेन साध्याभाववतः समासत्वासम्भवनिबन्धनताशपदासाधुत्वरुपो बलीयानपिदोषः साहशव्याख्याने वदितव्य इति । तस्मात् साध्या