________________
व्याप्तिपञ्चकविवृतिः ।
त्वादिभेदकत्वादिभ्यर्थे बाधासिद्ध्याद्यभावात् वस्तुतः पक्षतावच्छेदकस्य हेतुव्यापक साध्य सामानाधिकरण्य एव सत्वात्, तन्मात्र श्रम्य तवेनानिश्चयाच्च न सिद्धसाधनम्, अत्रापि पक्षे तीत्यादेर्व्यासिदानुषङ्गेण तत्साध्याभाववदवृत्तित्वन्न व्याप्तिरित्यर्थ एव ज्यायान् । तदा सम्बन्धात्साध्याभाववदवृत्तित्वादख्यभिचरितत्व विशेषत्व लाभेन प्रकृतानुमानस्य विशेषाभावकूटहेतुकसामान्याभावसाध्यकत्वप्राक्याsप्रयोजकत्वव्युदासात्, अव्याभेचरितत्वं न साध्याभाववदवृतित्वादिस्वरूपमित्यर्थस्त्वव्यभिचरितत्वमित्यनन्तरमनुमितिजनकतावच्छेदकत्वेनाभिमतमित्यस्य पूरणेन क्लेशेन समर्थनीयः । अन्यथा अव्यभिचरितत्वे साध्याभाववदवृत्तित्वादिरूपतायाः सिद्धान्तीय सरखेन तद्भिन्नत्वस्य प्रतिपत्यसम्भवेनासङ्गत्यापत्तेः, पूरणेतु केवलान्वयिन्यभावात्साध्याभाववदवृत्तित्वादेरनुमितिजनकतानवच्छेदकतया ता
शस्य तस्य भेदोऽनुमितिजनकतावच्छेदकत्वेनाभिमते सुग्रहः । तथाचाव्यभिचरितत्वस्य साध्याभाववदवृत्तित्वाद्यतिरिक्तविधाया अभावेन तेषां भेदस्यानुमितिजनकतावच्छेद के पर्यवसितत्वेऽव्यभिचरितत्वभेदः सिद्धयतीतिभावः । केवलान्वयिन्यभावादितितूक्तार्थकमेव । तेन न साध्याभाववदवृत्तित्वसिद्धयसिद्धिभ्याम्व्याघात इति दिक् ॥०॥
*साध्याभाववदवृत्तित्वमिति । अत्र वृत्तस्याभावोऽवृत्तं साध्याभाववतोऽवृत्तं साध्याभाववदवृत्तं तदस्यास्तीति साध्याभाव वदवृत्ति तस्य भावः साध्याभाववदवृत्तित्वमिति । वृत्तं वृत्ति वृत्तेरभावो ऽवृत्ति साध्याभाववतोऽवृत्ति यत्र स साध्याभाववदवृत्तिस्तस्य भावस्तन्वामेति वा विग्रहं वर्णयन्ति केचित्तन्नचारु न कर्मधारायान्मत्वथौयो वहुवीहिश्चेत्तदर्थप्रतिपत्तिकर इत्युशासनविरोधात् । तदर्थश्च बहुव्रीहीतरसमासान्मत्वर्थीयो न भवति बहुव्रीहिसमासेन मत्वर्थीयार्थलाभे अगुणवत्त्वमित्यत्र गुणस्याभावोऽगुणन्तदस्यास्तीत्यगुणवानिति विग्रहनिराकरणेन न गुणवानगुणवानिति विग्रहस्य गु·
प्रकाशरहस्यादौ दर्शनेन कर्मधारयपदस्य बहुव्रीहीतर परत्वात् नच बहुव्रीहीतरत्वं समासत्वञ्च व्यर्थे वहुव्रीहेरन्यपदार्थप्रधानतया तदुत्तरमत्वर्थीयार्थस्य तावत्पदबहुव्रीहिणा बोधयितुमशक्यत्वात् । कृदन्ततद्धितान्तादिपदोत्तरमत्वर्थीयार्थस्य तादृशपदबहुव्रीहिसमासस्यैवासम्भवेन बोधयितुमशक्यत्वाच्चेति वाच्यम् । उद्देश्यांशे उपरञ्जक