________________
व्याप्तिपञ्चकविवृत्तिः ।
कमादाय भागासिद्धितादवस्थ्यम् । नचैवमपि धूमव्यापकवह्निसामानाधिकरण्यवह्रद्यभाववदवृत्तित्वाभयवधूमवान्पर्वत इति ज्ञानीयता दशसामानाधिकरण्यत्वावच्छिन्न साध्याभाववदवृतित्वत्वावच्छिन्नविषयताया जनकतावच्छेदकत्वेन भागासिद्धितादवस्थ्यं साध्याभाववृदवृत्तित्वत्वातिरिक्तधर्मानवाच्छन्नविषयत्वानवच्छिनत्त्वन्तूभयवत्ताज्ञा
नीयतद्धर्मावच्छिन्नविषयताया जनकतानवच्छदकत्वासिद्ध्या विव क्षितुमशक्यमितिवाच्यम् । प्रागुक्तविषयतात्वावच्छिन्नावच्छेदकतानि रूपि तत्त्वाभावस्यैव हेतुसाध्यविधयाप्रवेशात् । उक्तज्ञानीयविषयताया अपितादृशसामानाधिकरण्यत्वावच्छिन्नविषयता त्वेनैवावच्छेदकत्वात् । अथ परमते वह्निव्याप्यो धूमो धूमवान् पर्वत इतिज्ञानस्यापि कारणत्वेन विशिष्टविषयतायाः कारणतानवच्छेदकतया साध्याभाववदवृत्तित्वविषयताया जनकतावच्छेदकत्वेपि साध्यसिद्धिरिति न विवक्षितार्थसिद्धिरिति चेन्मैवम् । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यत्वनिष्ठाव च्छेदकतानिरूपित प्रकृतहेतुतावच्छेदकावछिन्नप्रकारत्वनिष्ठावच्छेदक
ताविशिष्टहेतुतावच्छेदकावच्छिन्नविशेष्यत्वनिष्ठावच्छेदकतानिरूपिताव्यभिचारपदार्थतावच्छेदकावच्छिन्नविषयतात्वावच्छिन्नावच्छेदकतानिरूपितत्वाभावस्यैव साध्यत्वात् स्वनिरूपकजनकतानिरूपितत्वसम्बन्धेन वैशिष्ट्यं बोध्यम् । एवञ्च परमते निश्चयविशिष्टनिश्चयत्वेन जनकत्वेपि परामर्षस्य न दोषः । एवं सति तद्विनेत्यादिहेतुवाक्यस्यापि साध्याभाववदवृत्तित्वत्वावच्छिन्नविषयतानवच्छिन्नानुमितिजनकते
त्यत्रैवतात्पर्य व्याप्तिपदानुषङ्गं विनोक्तवाक्यस्य व्याप्तिपदानुषङ्गेण तदनुमितिजनकतावच्छेदकत्वेनाभिमताव्यभिचरितत्वं, साध्याभाववदवृत्तित्वादिरूपा न व्याप्तिरितित्यर्थकरणे साध्याभाववदवृत्तित्वस्यानुमितिजनकतावच्छेदकत्व व्यतिरेकप्रतीतेः । *केवलान्वयिन्यभावादिति । केवलान्वयित्वग्रहेऽनुमितिजनकज्ञाने विषयितायाः परस्परोपश्लिष्टसाध्याभाववद वृत्तित्वनिरूपिताया अभावात्म तिबन्धकसत्त्वादित्यर्थः । तथाच तदानीमनुमित्युपपादकव्याप्तिज्ञानस्यैव सर्वत्र हेतुत्वसम्भवेन साध्याभाववदवृत्तित्वादिशानस्यानुमिति. जनकतायां मानाभाव इति भावः । ईदृशव्याख्यानक्लेशश्च प्रश्नवाक्यो द्देश्यस्योत्तरवाक्ये विधेयत्वनियमावष्टम्भेन तदनङ्गीकारे व्याप्तिरनुमि. तिजनकतावच्छेदको नाव्यभिचरितत्वपदार्थः, साध्याभाववदास
वाधितार्थकत्वेन