________________
व्याप्तिपश्चकविवृतिः। स्वाभावस्य ताशवृत्सित्वघटोभयाभावस्य हेतौ सत्त्वेनान्याप्त्यभावा. दिति चेन्न । उक्तयुक्त्येव धूमवान्वहरित्यादावतिव्याप्त्यापत्या वृत्तित्व. सामान्याभावस्यैवप्रबश्यतया ऽव्याप्तिवारणासम्भयात् नवमयभावादिनिष्ठावच्छदकतायान्ताशप्रतियोगित्वादिनिष्ठावच्छदकताभिनावच्छेदकत्वानिरूपितत्वनिवेश्यतांप्रतियोगित्वनिष्ठावच्छेदकता. यां तु प्रतियोगित्वविशेषणीभूतरूपवृत्तित्वनिष्टावच्छेदकतानिरूपितत्वमात्रमेव दोषाभावादिति वाच्यम् तत्क्षणविशिष्टप्रतियोगिताघटितवृत्तित्वाभावमादायातिव्याप्तस्तथासत्यवारणात् । वस्तुतस्तु साक्षा. त्परम्परासाधारणनिरूपितत्वस्य स्वीकृततयावृत्तित्वनिष्ठप्रतियोगितायामेव प्रतियोगितावच्छेदककोटिप्रविष्टतत्तद्धर्मनिष्ठावच्छेदकतामित्रावच्छेकत्वानिरूपितत्वं प्रवेश्यं लाघवादिति प्रतियोगिताधिशेषणधर्मावच्छिन्नत्वस्येतरचारकस्य प्रवेश आवश्यक प्रति तयक्तः स्वरूपतोभानाभ्युपगमे वह्नयमावप्रतियोगितात्मकतव्यक्तिवहयभावात्मकतध्यक्तिधूमाभाषाधिकरणजलात्मकतध्यक्तीरादायधूमवान्बहेरि. त्यत्रातिव्याप्तिवारणायाधिकरणनिष्ठावच्छेदकतापर्यन्तन्तसदवच्छेदकतानिरूपितत्वंनिबेश्यं वृत्तित्वनिष्ठप्रतियोगितायामवच्छदकता. निरूपितत्वन्नोपादेयम् । स्वरूपसम्बन्धावच्छिन्नत्वस्यप्रतियोगितायामावश्यकतया ध्वंसीयप्रतियोगितामादायदोषाप्रसक्तः यसु प्रति योग्यंशे उपलक्षणविधयाभानस्यापि स्वीकृततया ताशप्रतीतीयप्रतियोगितामादाय दोष इति तन्न क्वचिदुपलक्षणविधया भानस्वी. कारेऽपि तस्य प्रतियोगितावच्छेदकत्वस्वीकारेण दोषासम्भवात् । परन्तु लक्ष्यमात्रवृत्तेरेवलक्षणत्वे व्याप्तिमिन्ने वृत्तित्वसामान्याभावे. ऽप्युक्ताभावस्य वृत्तितया तस्य व्याप्तिलक्षणत्वानुपपत्तिभयेनाधिकरणादिनिष्ठावच्छेदकतानिरूपितत्वमुपादेयमेबोक्ताभावत्वेनवृत्तित्वसा. मान्याभावस्यापि व्याप्तित्वेनोपादेयमेवेत्यवधेयमिति दिक् ।
येन सम्बन्धेनेति अथ साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वप्रवेशेऽपि संयोगसमवायोभयसम्बन्धेन वह्निर्धास्तीत्यभावमादायाव्याप्तिः । साध्यतानिरूपितसंसर्गतानवच्छेदकीभूतवमानवच्छिन्नसंसर्गतानिरूपितत्वनिबेश उक्तदोषवारणेऽपि संयोगत्वसमवाय. त्वान्यतरवत्सम्बन्धेनवह्निसाध्यकधूमे सवमायेन वह्नयभावमादायाव्याप्तेरनुद्धार इति चेन्न स्वानरूपितसंसर्गतावच्छेदकतात्वावच्छिन्न.