________________
३०
व्याप्तिपञ्चकवितिः। ध्यसामान्यीयप्रतियोगित्वाप्रसिद्धरितिचेन्न विषयितयाव्याप्यव्यापकभावानम्युपगमएवैतल्लक्षणप्रणयनमित्यभ्युपगमात् । प्रतियोगितायां साध्यसाध्यसमानियतान्यतरनिरूपितत्वस्य वा विवक्षितत्वात्सा. ध्यसामनयत्यं स्वरूपेणेति साध्यसमनियतातिरिक्ताभावनिरूपित त्वस्य सत्त्वान्नको पिदोषः पदमादधाति ।।
अत्रेदमवधेयम् । साध्याभावत्वावच्छिन्न साध्याभावत्वसमनि. यतम्वा यत्प्रतियोगित्वं साध्यसामान्यनिरूपितं तद्विशिष्टसाध्याभावत्वावच्छिन्ननिरूपकताविवक्षणीया वैशिष्टश्चस्वावच्छेदकसम्बन्धावाच्छन्नत्व स्वसामानाधिकरण्योभयसम्बन्धेन एवञ्च घटभेदाभावस्य घटस्वरूपस्य तादात्म्येन घटत्वे घटरूपस्प समवायन कपाले सत्त्वेऽपि तत्तत्सम्बन्धावच्छिन्नततनिष्ठनिरूपकतायास्ताहश्यासमवायावच्छन्नघटत्वनिष्ठप्रतियोगितयातादात्म्यावच्छिन्नघटनि
प्रतियोगितया वा विशिष्टत्वाद्घभिनङ्कपालत्वाद्घटत्ववाद्धे. त्यादी नाव्याप्तिः तथासत्यत्यन्ताभावत्वनिरूपितत्वस्यापि प्रयोज. नविरहेणानिवेशनीयतया समवायेनघटभेदाभावाभावस्य घटभेदा. स्वरूपत्वेऽपि घटात्मकसाध्याभावनिष्ठभेदीयप्रतियोगितामादायैव घटभेदसाध्यकस्थले लक्षणसङ्गतिः अत्रनिरूपकतायां साध्याभाव. त्वावच्छिन्नत्वप्रवेशाद्विशिष्टसत्ताभाववान्गुणत्वादित्यत्र सत्ताभावा. भावत्वावच्छिन्नानरूपकत्वमादाय नदोषः अथ महानसीयवन्ह्यभावाद्यवच्छिन्ननिरूपकतायांसाध्यनिरूपितवह्निसामान्याभावनिष्टप्रतियोगत्वसामानाधिकरण्यावरहणाव्याप्त्यसम्भवान्निरूपकतायांविवक्षितसाध्याभावत्वावच्छिन्नत्वनप्रवशनीयमिति चेन्निरूपकभेदेन निरुपकतायास्तादृशनिरुपकतानिरुपितत्वनचाधिकरणताया भिन्नत्वेन प्रवेशशनीयम् । प्रतियोगितायान्तत्प्रवेशादेव प्रयोजनस्य वृत्तत्वात् निरूपकतायानिरूपकभेदेन भेदाभावे तु वह्निसामान्याभावलाधारणवह्निनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नवह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावत्वावच्छिन्ननिरूपकत्वादिकमादायाव्याप्तिवारणाय सा. ध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्व. निष्ठावच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छेदकतानिरूपितनिरूपकत्वं प्रवेशनीयमेव ।
यदि●वं सति घटभेदाभावत्वावच्छिन्नतादात्म्याचवच्छिन्नघट.