________________
ध्यातिषश्चकविकृतिः। द्धिस्स्यादिति स्वानवच्छेदकानवच्छिन्नत्वस्य वैशिष्टयघटकतयोपा. दानमावश्यकमेकत्यनप्रस्थामसङ्गःनिच स्वसाजात्यमेव वैशिष्टयघट. के तथासति मिरवच्छिन्नावच्छेदकत्वे विशिष्टान्यत्वप्रसिद्धिः साजा. त्यञ्च सावच्छिन्नत्वनिरवच्छिन्नत्वान्यतररूपेण एवञ्च नानवस्थाप्र. सङ्ग इति वाच्यं प्रमेयावशिष्टवतस्साध्यतायां घटत्वविशिष्टवदभावमादायाव्याप्त्यापत्तेः । घटत्वत्वावच्छिन्नावच्छेदकतायां विशिष्टान्यत्वविरहादित्येवं केवलस्वानवच्छेदकानवच्छिन्नत्वस्यैवावच्छेदकतावत्त्वनियामकसंसर्गतामभ्युपेत्याप्यनवस्थापादनन्तन्न स्वनिरूपितयत्किञ्चिदवच्छदकत्वावृत्तित्वसम्बन्धावच्छिन्नस्वाभाववत्त्वस्यैव तद्रपतया विवक्षायान्तदसम्भबात् वृत्तित्वञ्च स्वनिरूपितावच्छेदकतासामानाधिकरण्यसम्वन्धन पवञ्च घटत्वनिष्ठावच्छेदकतायां स्वनिरूपितप्रमे. यत्वनिष्ठावच्छेदकत्वावृत्तित्वस्यैवसवेन न दोष इत्यलम् ॥
अथ निरवच्छिन्नात्मत्वादिसाध्यतास्थले साध्यतावच्छेदकाप्र. सियाऽव्याप्तिरिति चेन्न साध्यवदन्यावृत्तित्वादिरूपव्याप्तेरेव तस्य लक्ष्यत्वात् । यद्वा आत्मत्वत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिता.. काभावषदवृत्तित्वस्यैव तत्र व्याप्तित्वादात्मत्वत्वस्य साध्यतानवच्छेदकत्वेऽपि क्षत्यभावात् । शब्देक्यस्यानुपादेयत्वातू । केचित्तु साध्यताविशिष्टनिरूपकताकाधिकरणत्वाभाववदवृत्तित्वमेवायमात्माक्षानादित्यादिस्थलसाधारण्यानुरोधेन व्याप्तिः। वैशिष्टयञ्च स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वस्ववृत्तित्वैतचतुष्टयसम्बन्धेन वृत्तित्वञ्च स्वानवच्छेदकानवच्छिमत्वसम्बन्धन तथा च न कोपि दोष इति । यन्तु साध्यताविशिष्टाव. च्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगिताबच्छेदकरूपवृत्तिनिरूपकता. काधिकरणत्वाभाववदवृत्तित्वं व्याप्तिः। वैशिष्ट्यश्च स्वनिरूपितत्व. निरवच्छिन्नस्वसमानाधिकरणसाधारणधर्मनिष्ठावच्छेदकतावा- . न्यतरसम्वन्धेन वृत्तित्वञ्चस्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाचायमात्माज्ञानादित्यत्र तादृशं रूपमात्मत्वनिष्ठतद्यत्वक्तित्वगतैकत्वमेव प्रसिद्धमिति न र्दोष इति तमु. च्छम् । पूर्वोक्तदोषेण पर्याप्तिघटितकल्पस्यानुपादेयत्वादिति वदन्ति । नन्वत्राधेयत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छदकतानिरूपितप्रतियोगित्वनिष्ठाव.