Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पणि-मापाऽवचूगे उ0 ४ सू० १०-११ वाचनादानयोग्यायोग्यस्वरूपम् ११ एवमेव एते त्रयः-संवासयितुम् - स्वसमीपे निवासयितुम् उपवेशयितुमपि श्रमणानां न कल्पन्ते । एवं च पण्डकादयः कदाचिद् अनाभोगादिना प्रबाजिता भवेयुः, पश्चाद् विज्ञाताश्वेद मवेयुस्तदापि तेषामेतत्सूत्रोक्तस्य शेषपञ्चकस्य-मुण्डापन-शिक्षापणो-पस्थापन-संभोजन-संवासनलक्षणस्य समाचरणं न कर्तव्यमिति भावः । एवं प्रजाजनवत् पण्डकादित्रयस्य मुण्डापनादिपञ्चक समाचरति श्रमणस्तदा प्रव्राजनरूपे पूर्वोक्तपदे प्रोक्ताः प्रवचनोहाहानिन्दादयो दोषा ममापि अवगन्तव्या इति || सू० ९ ॥
पूर्व पण्डकादित्रयस्य प्रव्राजनादिषट्क निषिद्धम् , साम्प्रतमविनीतादित्रयस्य वाचनादानं प्रतिपेधितुमाह.... 'नमो नो सपदि हमादि ।
सूत्रम तो नो कप्पति वाइत्तए, जहा-अविणीए विगइपडिबढ़े अविभोसवियपाहुडे ॥ ९० १०॥
छाया-प्रयो नो कल्पन्ते पाचयितुम्, तथथा-अविनीतः, विकृतिप्रतिबद्धः, भन्ययशमितपाभृतः ॥ स० १०॥
चूर्णी-'तो' इति । त्रयस्तावत् वस्यमाणाः नो कल्पन्ते श्रमणानां 'वाइचए' इति वाचयितुम् सूत्रवाचनां दातुम् अर्थ वा चोधयितुम् तदुभयं वा, तथथा-'अविणीए' इत्यादि,
अविनीतः भाचार्यादेः पर्यायजेष्टस्य वा मभ्युत्थानस-कारसं मानादिविनयवर्जितः १, विकृतिप्रतिबदः विकृतिः-दधिदुग्धघृतादिरसरूपा, तत्र प्रतिबद्धः-लोपः २, अव्यवमितप्राभृत:मन्यवशभितम्-अनुपशान्तं ग्रामृतमिव ग्रामृत नरकपातनकुशलं वीवकोषलक्षणं येन स तथा, यः परुषभाषणाद्यपराधेऽपि परम क्रोधमावदति क्षमित्तमप्यपराधं यो वारं वारमुदीरमति स अन्य.
शमितप्रामृतः प्रोच्यते तोक्रोधी इत्यर्थः ३। एते त्रयः पुरुषाः सूत्रार्थतदुभयवाचनां दातुं धमणानां नो कल्पन्ते इति सूत्रार्थः । एतेषां वाचनादाने इमे दोपाः सम्भवन्ति—यः सल मविनीतः श्रुतज्ञानरहितोऽपि अहंकारी भवति तदा किं पुनस्तस्य श्रुतला १ । स्वयंनष्टस्य तस्य मन्यानपि नाशयिष्यतः श्रतग्राहणं क्षते क्षारावसेकन्यायेन ऊपरभूमिबीजपनन्यायेन च इहपरलोका. हितकरं भवति ततस्ताशाय अविनीताय श्रुतम्राइणं नोचितमेव यथा भुजङ्गस्य पयःपानं विपचकमेव भवति तथैव दुर्विनीतस्य श्रुतप्रदानमपि अधिकतरदुविनीततामेव वर्द्धयति, मतिल-ततैलादौ जलायसेकः वलयनौ घृतदानच अग्निवालावईकमेव भवति मतो भगवता दुर्विनीताय श्रुतदान निषिमिति ११ विकृतिप्रतिबद्धस्य बाचनादाने दोपा प्रदश्यन्ते यः कश्चित् शरिण इढोऽपि रसलोलुपतया विकृतावेव लोलपत्वेन तत्र प्रतिवद्रमनस्कतया न सुचारुरूपेण वाचना गृहाति, मनसो विकृतौ प्रतिबद्धत्वेन स श्रुतग्रहणे मनोयोगं दातुं न शक्नोति, मनोयोग विना श्रुतग्रहण न फलति । न स तपश्चरणं करोति, न तपो विना गृह्यमाणं श्रुतं मनोऽनुकूल फल प्रयच्छति प्रत्युत प्रभूतमनर्थं प्रसूते तस्मात् विकृतिप्रतिबई शिष्यं सूत्रार्थतदुभयं न वाचयेदिति
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518