Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 486
________________ चूणि माथ्यावरी उ० ६ सू० २ कल्पस्य पढ्नस्तारेषु प्रायश्चितविधिः १४७ साधुना गुरवे कथितं यदमुकेन साधुना मण्डूको मारितः, तदा आचार्यस्त साधु पृच्छेत् भोस्वया मण्डूको मारितः किम् ?, स यदि वदति न मारितः, अविराधने तेन सम्यक् प्रमाणमुपस्थापनीयम् अन्यथा स प्रायश्चित्तभागी भवत्येव । अथवा येनाक्षेपः कृतः स यदि प्रमाणेन स्वकीयमारोपणं न प्रमाणयितुं शक्नोति तदा स एव तत्स्थानप्राप्तो भवति, प्राणातिपाते यत् प्रायश्चित्तं तस्य प्रायश्चित्तस्य भागी स एवाभ्याख्यानकारको भवति । यः कोपि यस्य कस्याप्युपरि मारोपणं करोति प्राणातिपातादेः स यदि प्रमाणेन स्वकीयमभ्याख्यानं सिद्ध करोति तदा यस्यो परि भारोपणं कृतं स प्रायश्चित्तभागी भवति । यदि कदाचित् स स्वकृतमारोपणं प्रमाणयितुन शक्तो भवति तदा अभ्याख्यानकारकस्यैव तादृशं प्रायश्चित्तं भवतीति प्राणातिपातवादविषयः प्रथमः प्रायश्चित्तप्रस्तारः । एवं शुनक-सर्प-म्पक-दृष्टान्ता भावनीयाः १। मृषावादप्रस्तारो यथा-कस्मिश्चिद् गृहस्थगृहेऽवमरास्निको रत्नाधिकन सह भिक्षार्थ गतः सन् भोजनकालाभावेन प्रतिषिद्धः प्रत्यावृत्तः । पश्चान्गुहूर्तान्तरे रत्नाधिकेन कथितम् इदानी भोजनकालः संभाव्यतेऽतो नजामो भिक्षार्थम् , अवमेन कथितम् प्रतिपिद्धोऽहं न बजामि । ततो रत्नाधिकेन गत्वा मिक्षा समानीता । सोऽवमः आचार्यायेदमालोचयति यथा- भदन्त । अयं दोनकरुणवचनैर्याचते प्रतिषिद्धोऽपि गृहस्थगृहं प्रविशति, प्रविष्टश्च मुखप्रियाणि योगचिकित्सानिमित्तानि गृहस्थेभ्यो जल्पति, इत्येवमभ्याख्यानदानं भूषावादरूपो द्वितीयः प्रायश्चित्तप्रस्तार: २। भदत्तादानप्रस्तारो यथा-एकत्र गृहेऽवमरा निकेन यावद् मिक्षा गृहीता तावद एको स्नाधिकः कुत्रतो मोदकान् लब्ध्वाऽन्यस्मै अवमाय दत्तवान्, तदितरोऽवमस्तान मोदकान् दृष्ट्वा प्रत्यावृत्त्य गुरुसमक्षं भणति -आलोचय त्वया रत्नाधिकेनादत्ता मोदका गृहीताः, इत्यभ्याख्यानदानमदत्तादानरूपस्तृतीयः प्रायश्चित्तप्रस्तारः ३ । ___अविरतिकावादप्रस्तारो यथा-कश्चिद् अवमरानिको दशविध च समाचायां स्खलितो स्नाधिकेन 'हे दुष्ट शिष्य ! स्खलितोऽसि' इत्यादिवाक्यतस्तर्जित मालोचति- अयं रत्नाधिकोऽह'-मिति गर्वेण मामस्खलितमपि तर्जयति कषायोदयतो मां प्रेरयतीत्यवस लावा तथा करोमि येनार्य लघुको भवतीति । ततोऽन्यदा छावपि भिक्षार्थ गतो, भिक्षामानीय प्रत्यावृत्तौ मार्गे उष्णकालादिकारणवशाद् चुभुक्षितौ तृपितो तत्रैवं चिन्तितवन्तौ-मत्र परिमाजिकादेवकुले कुटङ्गे लतावृक्षाच्छादितस्थाने प्रथमालिकां-पूर्व किश्चिद भोजनं कृत्वा पानीयं पास्यावः, इति चिन्तयित्वा सुखं स्थिती, अनान्तरेऽवमरास्निकेन एका परिवाजिका तदभिमुखमागम्छन्ती दृष्टा, लब्धोऽवसर इदानीमिति चिन्तयित्वा वदति-कुरुत भदन्ताः ! भवन्तः भोजनपानम् , अहं तु उच्चारार्थ गमिष्यामीति । एवमुक्वा संघमाचार्यसमीपे समागत्य मैथुने. इभ्याल्यातुं भणति-भदन्त : ज्येष्टाऽऽर्येणाय सद्य इदानी परिवाजिकागृहे प्रति सेवितमकार्य

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518