________________
चूणि माथ्यावरी उ० ६ सू० २ कल्पस्य पढ्नस्तारेषु प्रायश्चितविधिः १४७ साधुना गुरवे कथितं यदमुकेन साधुना मण्डूको मारितः, तदा आचार्यस्त साधु पृच्छेत् भोस्वया मण्डूको मारितः किम् ?, स यदि वदति न मारितः, अविराधने तेन सम्यक् प्रमाणमुपस्थापनीयम् अन्यथा स प्रायश्चित्तभागी भवत्येव । अथवा येनाक्षेपः कृतः स यदि प्रमाणेन स्वकीयमारोपणं न प्रमाणयितुं शक्नोति तदा स एव तत्स्थानप्राप्तो भवति, प्राणातिपाते यत् प्रायश्चित्तं तस्य प्रायश्चित्तस्य भागी स एवाभ्याख्यानकारको भवति । यः कोपि यस्य कस्याप्युपरि मारोपणं करोति प्राणातिपातादेः स यदि प्रमाणेन स्वकीयमभ्याख्यानं सिद्ध करोति तदा यस्यो परि भारोपणं कृतं स प्रायश्चित्तभागी भवति । यदि कदाचित् स स्वकृतमारोपणं प्रमाणयितुन शक्तो भवति तदा अभ्याख्यानकारकस्यैव तादृशं प्रायश्चित्तं भवतीति प्राणातिपातवादविषयः प्रथमः प्रायश्चित्तप्रस्तारः । एवं शुनक-सर्प-म्पक-दृष्टान्ता भावनीयाः १।
मृषावादप्रस्तारो यथा-कस्मिश्चिद् गृहस्थगृहेऽवमरास्निको रत्नाधिकन सह भिक्षार्थ गतः सन् भोजनकालाभावेन प्रतिषिद्धः प्रत्यावृत्तः । पश्चान्गुहूर्तान्तरे रत्नाधिकेन कथितम् इदानी भोजनकालः संभाव्यतेऽतो नजामो भिक्षार्थम् , अवमेन कथितम् प्रतिपिद्धोऽहं न बजामि । ततो रत्नाधिकेन गत्वा मिक्षा समानीता । सोऽवमः आचार्यायेदमालोचयति यथा- भदन्त । अयं दोनकरुणवचनैर्याचते प्रतिषिद्धोऽपि गृहस्थगृहं प्रविशति, प्रविष्टश्च मुखप्रियाणि योगचिकित्सानिमित्तानि गृहस्थेभ्यो जल्पति, इत्येवमभ्याख्यानदानं भूषावादरूपो द्वितीयः प्रायश्चित्तप्रस्तार: २।
भदत्तादानप्रस्तारो यथा-एकत्र गृहेऽवमरा निकेन यावद् मिक्षा गृहीता तावद एको स्नाधिकः कुत्रतो मोदकान् लब्ध्वाऽन्यस्मै अवमाय दत्तवान्, तदितरोऽवमस्तान मोदकान् दृष्ट्वा प्रत्यावृत्त्य गुरुसमक्षं भणति -आलोचय त्वया रत्नाधिकेनादत्ता मोदका गृहीताः, इत्यभ्याख्यानदानमदत्तादानरूपस्तृतीयः प्रायश्चित्तप्रस्तारः ३ । ___अविरतिकावादप्रस्तारो यथा-कश्चिद् अवमरानिको दशविध च समाचायां स्खलितो स्नाधिकेन 'हे दुष्ट शिष्य ! स्खलितोऽसि' इत्यादिवाक्यतस्तर्जित मालोचति- अयं रत्नाधिकोऽह'-मिति गर्वेण मामस्खलितमपि तर्जयति कषायोदयतो मां प्रेरयतीत्यवस लावा तथा करोमि येनार्य लघुको भवतीति । ततोऽन्यदा छावपि भिक्षार्थ गतो, भिक्षामानीय प्रत्यावृत्तौ मार्गे उष्णकालादिकारणवशाद् चुभुक्षितौ तृपितो तत्रैवं चिन्तितवन्तौ-मत्र परिमाजिकादेवकुले कुटङ्गे लतावृक्षाच्छादितस्थाने प्रथमालिकां-पूर्व किश्चिद भोजनं कृत्वा पानीयं पास्यावः, इति चिन्तयित्वा सुखं स्थिती, अनान्तरेऽवमरास्निकेन एका परिवाजिका तदभिमुखमागम्छन्ती दृष्टा, लब्धोऽवसर इदानीमिति चिन्तयित्वा वदति-कुरुत भदन्ताः ! भवन्तः भोजनपानम् , अहं तु उच्चारार्थ गमिष्यामीति । एवमुक्वा संघमाचार्यसमीपे समागत्य मैथुने. इभ्याल्यातुं भणति-भदन्त : ज्येष्टाऽऽर्येणाय सद्य इदानी परिवाजिकागृहे प्रति सेवितमकार्य