________________
सरस्वत.
rike um
mommunveiww.ne.nirm in.wwe...
पृहरकल्प सूत्रे मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः । ।
अपुरुषवादप्रस्तारो यथा - कोऽपि साधू स्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जितछिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति-नूनमेष रत्नाधिकोऽपुरुषो नपुंसको वर्त्तते, भाचायण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम्-ममैतस्य निजकैः कथित यदयं नपुंसकः प्रवाजितो भवतेति । ततो मयाऽपि ज्ञातम्-हसितस्थितचङ्कमितशरीरभाषादिलक्षणैः 'मयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ ।
दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुद्दिश्याचार्य प्रति भणतिअयं रत्नाधिको दासोऽस्ति । माचार्यैरुक्तम् -कथं जानासि !, स प्राह-निजकैर्मम कथित मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भाषते, इत्यादिलक्षणैः शसस्थानादिनाऽपि चाय दासत्वामीगते. इत्याद्यभ्याख्यानदान दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । पते षट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ ।
अथ सूत्रव्याख्या-'इच्चे ते' इत्यादि, इच्चे ते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्यारे षट् कल्पत्य प्रस्तारान् पत्यारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायफः साधुः स्वदत्तमभ्याख्यानम् सम्भं अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपूरयन् तहाणपत्ते सिया तत्स्थाप्राप्तः स्यात्, तत् प्राणातिरातादिक यत्स्थानं तत्स्थानं प्रायश्चित्तस्थान प्राप्तो भवति । अयं भावः--यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दतं स तस्यासद्भूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थन कत्तुं न शक्नोति तदा तस्यैव मन्याख्यान दायकस्यैव प्राणातिपातादिकरिव प्रायश्चित्तस्थान प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्तव्या, तथाहिप्रथमं मार्गे रहनाधिक-भवता दरो मारितः' इति कथयित्वा ततो निवृत्याचार्यसमीपं तत्कथनार्थ बजति तदा अभ्याल्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलधुप्रायश्चित्तं भवति, ततः परं भगने मासगुरु । तस्य भणने यदि आचार्यों यस्योपयेभ्याख्यानं प्राप्तं तं साधुमाह्य पृच्छतिकिं त्वया दर्दुरो मारितः ! स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूयः प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव 'न मारितः' इति कथने तस्याभ्याख्यानदातु चतुर्गुरु । पुनरवमो भणति यदि न विश्वासस्तदा सत्रोपस्थिता गृहस्था: प्रष्टव्याः, साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं दर्दुरमारणं कुर्वन् पृष्टः, इति तैः कथने षड्गुरू, साधवः समागताः कथयन्ति नापदाक्तिोऽनेन द?र इति तदा छेदः ।