Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 487
________________ सरस्वत. rike um mommunveiww.ne.nirm in.wwe... पृहरकल्प सूत्रे मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः । । अपुरुषवादप्रस्तारो यथा - कोऽपि साधू स्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जितछिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति-नूनमेष रत्नाधिकोऽपुरुषो नपुंसको वर्त्तते, भाचायण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम्-ममैतस्य निजकैः कथित यदयं नपुंसकः प्रवाजितो भवतेति । ततो मयाऽपि ज्ञातम्-हसितस्थितचङ्कमितशरीरभाषादिलक्षणैः 'मयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ । दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुद्दिश्याचार्य प्रति भणतिअयं रत्नाधिको दासोऽस्ति । माचार्यैरुक्तम् -कथं जानासि !, स प्राह-निजकैर्मम कथित मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भाषते, इत्यादिलक्षणैः शसस्थानादिनाऽपि चाय दासत्वामीगते. इत्याद्यभ्याख्यानदान दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । पते षट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ । अथ सूत्रव्याख्या-'इच्चे ते' इत्यादि, इच्चे ते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्यारे षट् कल्पत्य प्रस्तारान् पत्यारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायफः साधुः स्वदत्तमभ्याख्यानम् सम्भं अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपूरयन् तहाणपत्ते सिया तत्स्थाप्राप्तः स्यात्, तत् प्राणातिरातादिक यत्स्थानं तत्स्थानं प्रायश्चित्तस्थान प्राप्तो भवति । अयं भावः--यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दतं स तस्यासद्भूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थन कत्तुं न शक्नोति तदा तस्यैव मन्याख्यान दायकस्यैव प्राणातिपातादिकरिव प्रायश्चित्तस्थान प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्तव्या, तथाहिप्रथमं मार्गे रहनाधिक-भवता दरो मारितः' इति कथयित्वा ततो निवृत्याचार्यसमीपं तत्कथनार्थ बजति तदा अभ्याल्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलधुप्रायश्चित्तं भवति, ततः परं भगने मासगुरु । तस्य भणने यदि आचार्यों यस्योपयेभ्याख्यानं प्राप्तं तं साधुमाह्य पृच्छतिकिं त्वया दर्दुरो मारितः ! स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूयः प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव 'न मारितः' इति कथने तस्याभ्याख्यानदातु चतुर्गुरु । पुनरवमो भणति यदि न विश्वासस्तदा सत्रोपस्थिता गृहस्था: प्रष्टव्याः, साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं दर्दुरमारणं कुर्वन् पृष्टः, इति तैः कथने षड्गुरू, साधवः समागताः कथयन्ति नापदाक्तिोऽनेन द?र इति तदा छेदः ।

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518