Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 471
________________ पृहत्कल्पसूत्रे आतापयितुम् , कल्पते तस्या उपाश्रयस्य अन्तर्चगडायां संघाटीपतिबद्धायाः प्रलम्बितपाहायाः समतलपारिकायाः स्थित्वा आतापमया भातापयितुम् ॥ सू० २२ ।। चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्ध्याः किमित्याह-प्रामादेवहिः प्रदेशे बाहू ऊवीकृत्य सूर्याभिमुखीभूत्वा एकपादेन अवीभूताया आतापनामातापयितुं न कल्पते इति निषेधसूत्रस्य संक्षेपार्थः । कथं कल्पते ! इति विधिसूत्रसंक्षेपार्थों यथा-ग्रामादेमध्ये उपाश्रयभूमेरम्यन्तरे संघारयादिना समुचितावृतशरीरायाः बाहू अधोभागे प्रलम्ब्य समतसमिस्थितपाद. येन ऊर्चस्थानेन स्थिताया आतापनामातापयितुं कल्पते, इति निषेघविषिगर्मितस्य सूत्रस्य संझेपाथः । विस्तरार्थों यथा-नो कल्पते न युज्यते निम्रन्थ्याः श्रमण्याः ग्रामस्य वा बहिरिस्यनेनान्वयः । एवं नगरस्य वा खेटस्य वा फटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वामाश्रमस्य वा संनिवेशस्य वा, तत्र-ग्रामः बृतिवेष्टितजननिवासरूपः, तस्य, भाकर:सुवर्णरत्नाथुत्पत्तिस्थानम् तस्य, नगरम्-अष्टादशकरवर्जितम् तस्य, खेट-धूलियाकारपरिक्षिप्तम् तस्य, कर्बट-कुत्सितनगरम् तस्य, मइम्य-सार्धक्रोशवयान्तर्मामान्तररहितम् तस्य, द्रोणमुखंजलस्थलपथोपेतो जननिवासः तस्य, पत्तनं समस्तवस्तुप्राप्तिस्थानम् तस्य, तद् द्विविधं भवति-जलपत्तन स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थकपत्तनम् । यद्वा शामिना भिषा यद् गम्यं सत् पत्तनं, यत् कवलं नौभिरेव गम्यं तत् पट्टनम् इति बोध्यम् । एषां प्रामादीनां बहिः ऊर्ध्वम् उपरिभागे आकाशे बाई-भुजौ प्रगृह्य-प्रगृह्म प्रकर्षेण कृत्वा सूराभिमुख्याः सूर्याभिमुख स्वितायाः एकपादिकायाः ऊर्बोत्थापितकचरणायाः, एक पादमाकुञ्चितं कृत्वा उत्थाप्य द्वितीयं पादं भूमौ संस्थाप्य एतादृशरूपेण स्थिवा ऊर्ध्वस्थानेन अवोत्थापित शरिण स्थित्वा आतापनया मातापनरूपतपोविशेषेण आतापयितुम्-आतापनां ग्रहीतुं न कल्पते इति पूर्वेण सम्बन्धः । तहि कथं कल्पतेः इति तद्विधि प्रदर्शयति-'कम्पइ से' इत्यादि, 'से' तस्या निम्रन्ध्याः कल्पते उपाश्रयस्य अन्तर्वगडायां-प्राकाराभ्यन्तरे मित्याद्याच्छादितप्रदेशे 'वगडा'-शब्दोऽत्र गृहप्राकार रूपार्थवाचको देशीयो वर्तते, तस्या, अभ्यन्तरे, तत्रापि कीदृश्याः ! तत्राह-संघाटीप्रतिबद्धायाः संघाटीग्रहणेन अवमहानन्तकादीनां निम्रन्थीप्रायोग्यानां समुचितोपकरणानां प्रहणं भवति, तैः प्रतिबद्धायाः सुप्रावृतशरीरायाः, पुनः कीदृश्याः ! इत्याह-'पलंपियवाहार' इति प्रलम्बितबाहायाः प्रलम्बिते अधोलम्बमाने बाहे-बाहू यायाः सा प्रलम्बितवाहा अधोलम्यमानभुना, तस्याः प्रलम्बीकृतमुजायाः समतलपादिकायाः समतलौ च तौ पादौ चेति समतलपादौ, तो अस्याः स्त इति समतलपादिका तस्याः, पादद्वयं भूमौ समतया संस्थाप्य स्थितायाः स्थित्वा-पूर्वोक्तप्रकारेण स्थितिं कृत्वा मातापनया-आतापनाभिघतपोविशेषेण भातापयितुम् आतापना कतुं कल्पते । साधोपरोत्येन साध्वीनामातापनाग्रहण कल्पते, स्त्रीशरीरस्य गोप्यत्वेन तथाविधातापनाप्रहणस्य भगवता प्ररूपितत्वादिति ॥ २२॥

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518