________________
पृहत्कल्पसूत्रे आतापयितुम् , कल्पते तस्या उपाश्रयस्य अन्तर्चगडायां संघाटीपतिबद्धायाः प्रलम्बितपाहायाः समतलपारिकायाः स्थित्वा आतापमया भातापयितुम् ॥ सू० २२ ।।
चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्ध्याः किमित्याह-प्रामादेवहिः प्रदेशे बाहू ऊवीकृत्य सूर्याभिमुखीभूत्वा एकपादेन अवीभूताया आतापनामातापयितुं न कल्पते इति निषेधसूत्रस्य संक्षेपार्थः । कथं कल्पते ! इति विधिसूत्रसंक्षेपार्थों यथा-ग्रामादेमध्ये उपाश्रयभूमेरम्यन्तरे संघारयादिना समुचितावृतशरीरायाः बाहू अधोभागे प्रलम्ब्य समतसमिस्थितपाद.
येन ऊर्चस्थानेन स्थिताया आतापनामातापयितुं कल्पते, इति निषेघविषिगर्मितस्य सूत्रस्य संझेपाथः । विस्तरार्थों यथा-नो कल्पते न युज्यते निम्रन्थ्याः श्रमण्याः ग्रामस्य वा बहिरिस्यनेनान्वयः । एवं नगरस्य वा खेटस्य वा फटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वामाश्रमस्य वा संनिवेशस्य वा, तत्र-ग्रामः बृतिवेष्टितजननिवासरूपः, तस्य, भाकर:सुवर्णरत्नाथुत्पत्तिस्थानम् तस्य, नगरम्-अष्टादशकरवर्जितम् तस्य, खेट-धूलियाकारपरिक्षिप्तम् तस्य, कर्बट-कुत्सितनगरम् तस्य, मइम्य-सार्धक्रोशवयान्तर्मामान्तररहितम् तस्य, द्रोणमुखंजलस्थलपथोपेतो जननिवासः तस्य, पत्तनं समस्तवस्तुप्राप्तिस्थानम् तस्य, तद् द्विविधं भवति-जलपत्तन स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थकपत्तनम् । यद्वा शामिना भिषा यद् गम्यं सत् पत्तनं, यत् कवलं नौभिरेव गम्यं तत् पट्टनम् इति बोध्यम् । एषां प्रामादीनां बहिः ऊर्ध्वम् उपरिभागे आकाशे बाई-भुजौ प्रगृह्य-प्रगृह्म प्रकर्षेण कृत्वा सूराभिमुख्याः सूर्याभिमुख स्वितायाः एकपादिकायाः ऊर्बोत्थापितकचरणायाः, एक पादमाकुञ्चितं कृत्वा उत्थाप्य द्वितीयं पादं भूमौ संस्थाप्य एतादृशरूपेण स्थिवा ऊर्ध्वस्थानेन अवोत्थापित शरिण स्थित्वा आतापनया मातापनरूपतपोविशेषेण आतापयितुम्-आतापनां ग्रहीतुं न कल्पते इति पूर्वेण सम्बन्धः । तहि कथं कल्पतेः इति तद्विधि प्रदर्शयति-'कम्पइ से' इत्यादि, 'से' तस्या निम्रन्ध्याः कल्पते उपाश्रयस्य अन्तर्वगडायां-प्राकाराभ्यन्तरे मित्याद्याच्छादितप्रदेशे 'वगडा'-शब्दोऽत्र गृहप्राकार रूपार्थवाचको देशीयो वर्तते, तस्या, अभ्यन्तरे, तत्रापि कीदृश्याः ! तत्राह-संघाटीप्रतिबद्धायाः संघाटीग्रहणेन अवमहानन्तकादीनां निम्रन्थीप्रायोग्यानां समुचितोपकरणानां प्रहणं भवति, तैः प्रतिबद्धायाः सुप्रावृतशरीरायाः, पुनः कीदृश्याः ! इत्याह-'पलंपियवाहार' इति प्रलम्बितबाहायाः प्रलम्बिते अधोलम्बमाने बाहे-बाहू यायाः सा प्रलम्बितवाहा अधोलम्यमानभुना, तस्याः प्रलम्बीकृतमुजायाः समतलपादिकायाः समतलौ च तौ पादौ चेति समतलपादौ, तो अस्याः स्त इति समतलपादिका तस्याः, पादद्वयं भूमौ समतया संस्थाप्य स्थितायाः स्थित्वा-पूर्वोक्तप्रकारेण स्थितिं कृत्वा मातापनया-आतापनाभिघतपोविशेषेण भातापयितुम् आतापना कतुं कल्पते । साधोपरोत्येन साध्वीनामातापनाग्रहण कल्पते, स्त्रीशरीरस्य गोप्यत्वेन तथाविधातापनाप्रहणस्य भगवता प्ररूपितत्वादिति ॥ २२॥