Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीअभय वृत्तियुतम् भाग-२ // 1042 // द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, नेरइयाउयत्ताए त्ति नैरयिकायुष्कतया गहियाई ति स्पर्शनतः, बद्धाई ति बन्धनतः, पुट्ठाई ति पोषितानि प्रदेशप्रक्षेपतः, कडाई ति विशिष्टानुभागतः, पट्ठवियाई ति स्थितिसम्पादनेन, निविट्ठाई ति जीवप्रदेशेषु , अभिनिविट्ठाईति जीवप्रदेशेष्वभिव्याप्त्या निविष्टान्यतिगाढतांगतानीत्यर्थः, ततश्चाभिसमन्नागयाई ति, अभिसमन्वागतान्युदयावलिकायामागतानि तानि द्रव्याणि, आविइ त्ति, किमुक्तं भवति? अणुसमयं ति, अनुसमयं प्रतिक्षणम्, एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत आह निरंतरं मरंति त्ति निरन्तरमव्यवच्छेदेन सकलसमयेष्वित्यर्थः, म्रियन्ते विमुञ्चन्तीत्यर्थः, इतिकटु त्ति, इतिहेतो:रयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थमाह से तेणतुण मित्यादि। 22 एवं जाव भावावीचियमरणे त्ति, इह यावत्करणात् कालावीचिकमरणं भवावीचिकमरणं च द्रष्टव्यम्, तत्र चैवं पाठः कालावीइयमरणे णं भंते! क. प०?, गोयमा! चउब्विहे प०, तंजहा- नेरइयकालावीइमरणे 4, से केण० भंते! एवं वु. नेरइयकाला. 2?, गो.! जन्नं ने० नेरइयकाले वट्टमाणे इत्यादि, एवं भवावीचिकमरणमप्यध्येयम् / 25 नैरयिकद्रव्यावधिमरणसूत्रे जण्ण मित्यादि, एवं चेहाक्षरघटना, नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यम्, मरिष्यन्ते त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इति शेषः, से तेणट्टेण मित्यादि निगमनम् // 31 पण्डितमरणसूत्रेणीहारिमे अणीहारिमे त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिमम्, कडेवरस्य निर्हरणीयत्वात्, यच्च गिरिकन्दरादौ विधीयते तदनिर्हारिमम्, कडेवरस्यानिर्हरणीयत्वात्, नियम अप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदं भवतीति, 32 तं चेव त्ति करणानिर्हारिममनिर्झरिमं चेति दृश्यम्, सप्रतिकर्मैव चेदं भवतीति // 496 // त्रयोदशशते सप्तमः // 13-7 // 13 शतके उद्देशक: 7 भाषाधिकारः। सूत्रम् 496 आवीचिकावध्यात्यंतिकबालपंडितपञ्चमरणभेदप्रभेद प्रश्नाः / पादोपगमनभक्तप्रत्याख्यान पंडितमरण भेदप्रश्राः / // 1042 //
Loading... Page Navigation 1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574