Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-२ 14 शतके उद्देशकः४ | पुगला|धिकारः। सूत्रम् 511 अतीतानागतवर्तमानकालेषु // 1065 // जीवस्य जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह 4 एसणं भंते! जीवे तीतमणंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा? पुव्विं च करणेणं अणेगभूयं परिणामं परिणमइ अह से वेयणिज्जे निजिन्ने भवति तओ पच्छा एगभावे एगभूए सिया?, हंता गोयमा! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अणागयमणंतं सासयं समयं / / सूत्रम् 511 // 4 एस णं भंते! जीव इत्यादि,एषः प्रत्यक्षोजीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चयार्थत्वाहुःखीच सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्त्येकोपयोगत्वाजीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात्? इति पृच्छन्नाह पुब्विं च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमइ पूर्वं चैकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, अणेगभूयं ति, अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं परिणमइ त्ति, अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवानिति / अह से त्ति, अथ तदुःखितत्वाद्यनेकभावहेतुभूतम्, वेयणिज्जे त्ति वेदनीय कर्म, उपलक्षणत्वाच्चास्य ज्ञानावरणीयादि च निर्जीर्णं क्षीणं भवति ततः पश्चादेगभावे त्ति, एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एवैकभूत एकत्वं प्राप्तः, सिय त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव / एवं प्रत्युत्पन्नानागतसूत्रे अपीति // 511 // पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा? इत्याशङ्कायामाह सुखीत्वदुखीत्वादि परिणामप्रश्नाः / // 1065 //
Loading... Page Navigation 1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574