________________ श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-२ 14 शतके उद्देशकः४ | पुगला|धिकारः। सूत्रम् 511 अतीतानागतवर्तमानकालेषु // 1065 // जीवस्य जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह 4 एसणं भंते! जीवे तीतमणंतं सासयं समयं दुक्खी समयं अदुक्खी समयं दुक्खी वा अदुक्खी वा? पुव्विं च करणेणं अणेगभूयं परिणामं परिणमइ अह से वेयणिज्जे निजिन्ने भवति तओ पच्छा एगभावे एगभूए सिया?, हंता गोयमा! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अणागयमणंतं सासयं समयं / / सूत्रम् 511 // 4 एस णं भंते! जीव इत्यादि,एषः प्रत्यक्षोजीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाऽदुःखी वा, वाशब्दयोः समुच्चयार्थत्वाहुःखीच सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्त्येकोपयोगत्वाजीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात्? इति पृच्छन्नाह पुब्विं च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमइ पूर्वं चैकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः, अणेगभूयं ति, अनेकभावत्वादेवानेकरूपं परिणाम स्वभावं परिणमइ त्ति, अतीतकालविषयत्वादस्य परिणतवान् प्राप्तवानिति / अह से त्ति, अथ तदुःखितत्वाद्यनेकभावहेतुभूतम्, वेयणिज्जे त्ति वेदनीय कर्म, उपलक्षणत्वाच्चास्य ज्ञानावरणीयादि च निर्जीर्णं क्षीणं भवति ततः पश्चादेगभावे त्ति, एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एवैकभूत एकत्वं प्राप्तः, सिय त्ति बभूव कर्मकृतधर्मान्तरविरहादिति प्रश्नः, इहोत्तरमेतदेव / एवं प्रत्युत्पन्नानागतसूत्रे अपीति // 511 // पूर्व स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा? इत्याशङ्कायामाह सुखीत्वदुखीत्वादि परिणामप्रश्नाः / // 1065 //