________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1064 // काले समयं लुक्खी ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा समयं अलुक्खी त्ति समयमेकं यावदरूक्षस्पर्शसद्धावादरूक्षी स्निग्धस्पर्शवान् बभूव, इदंच पदद्वयं परमाणौ स्कन्धे च संभवति, तथा समयं लुक्खी वा अलुक्खी वत्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदंच स्कन्धापेक्षं यतो व्यणुकादिस्कन्धे देशोरूक्षो देशश्चारूक्षो भवतीत्येवं युगपद्र्क्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थौ,एवंरूपश्चसन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात्? इति पृच्छन्नाह पुव्विं च णं करणेणं अणेगवन्नं अणेगरूवं परिणामं परिणमई त्यादि, पूर्व चैकवर्णादिपरिणामात्प्रागेव करणेन प्रयोगकरणेन विश्रसाकरणेन वाऽनेकवर्णं कालनीलादिवर्णभेदेनानेकरूपंगन्धरसस्पर्शसंस्थानभेदेन परिणामं पर्यायं परिणमत्यतीकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुद्गल इति प्रकृतम्, सच यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदिचस्कन्धस्तदा यौगपद्येनापीति / अह से त्ति अथानन्तरं स एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो निर्जीर्णः क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् ततः पश्चान्निर्जरणानन्तरमेकवर्णः, अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात्, सिय त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति // 2 एस ण मित्यादि वर्तमानकालसूत्रम्, तत्र च पडुप्पन्न ति विभक्तिपरिणामात्, प्रत्युत्पन्ने, वर्तमाने शाश्वते, सदैव तस्य भावात्, समये कालमात्रे, एवं चेव त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वाअलुक्खीवे त्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवात्,अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतंतयोरनन्तत्वसम्भवादिति ॥अनन्तरं पुद्गलस्वरूपं निरूपितंपुद्गलश्चस्कन्धोऽपि भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह, एस णं भंते! खंध इत्यादि॥ 510 // स्कन्धश्च स्वप्रदेशापेक्षया 14 शतके उद्देशकः 4 पुद्गलाधिकारः। सूत्रम् 510 अतीतानागतवर्तमानकालपरमाणुस्कन्धयोरेक भिन्नसमययो कानेकपरिणामभवनप्रश्नाः। // 1064 //