Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1064 // काले समयं लुक्खी ति समयमेकं यावद्रूक्षस्पर्शसद्भावाद्रूक्षी, तथा समयं अलुक्खी त्ति समयमेकं यावदरूक्षस्पर्शसद्धावादरूक्षी स्निग्धस्पर्शवान् बभूव, इदंच पदद्वयं परमाणौ स्कन्धे च संभवति, तथा समयं लुक्खी वा अलुक्खी वत्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदंच स्कन्धापेक्षं यतो व्यणुकादिस्कन्धे देशोरूक्षो देशश्चारूक्षो भवतीत्येवं युगपद्र्क्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थौ,एवंरूपश्चसन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात्? इति पृच्छन्नाह पुव्विं च णं करणेणं अणेगवन्नं अणेगरूवं परिणामं परिणमई त्यादि, पूर्व चैकवर्णादिपरिणामात्प्रागेव करणेन प्रयोगकरणेन विश्रसाकरणेन वाऽनेकवर्णं कालनीलादिवर्णभेदेनानेकरूपंगन्धरसस्पर्शसंस्थानभेदेन परिणामं पर्यायं परिणमत्यतीकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुद्गल इति प्रकृतम्, सच यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदिचस्कन्धस्तदा यौगपद्येनापीति / अह से त्ति अथानन्तरं स एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो निर्जीर्णः क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् ततः पश्चान्निर्जरणानन्तरमेकवर्णः, अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात्, सिय त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, इहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति // 2 एस ण मित्यादि वर्तमानकालसूत्रम्, तत्र च पडुप्पन्न ति विभक्तिपरिणामात्, प्रत्युत्पन्ने, वर्तमाने शाश्वते, सदैव तस्य भावात्, समये कालमात्रे, एवं चेव त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं समयं लुक्खी समयं अलुक्खी समयं लुक्खी वाअलुक्खीवे त्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवात्,अतीतानागतसूत्रयोस्त्वनन्तमित्यधीतंतयोरनन्तत्वसम्भवादिति ॥अनन्तरं पुद्गलस्वरूपं निरूपितंपुद्गलश्चस्कन्धोऽपि भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह, एस णं भंते! खंध इत्यादि॥ 510 // स्कन्धश्च स्वप्रदेशापेक्षया 14 शतके उद्देशकः 4 पुद्गलाधिकारः। सूत्रम् 510 अतीतानागतवर्तमानकालपरमाणुस्कन्धयोरेक भिन्नसमययो कानेकपरिणामभवनप्रश्नाः। // 1064 //
Loading... Page Navigation 1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574