Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1086 // जोयणसहस्साई ति, इह योजनं प्रायः प्रमाणाङ्गलनिष्पन्नं ग्राह्यम्, नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु। (नगपृथिवीविमानानि प्रमाणाङ्गलेन मिनु।) इत्यत्र नगादिग्रहणस्योपलक्षणत्वादन्यथाऽऽदित्य प्रकाशादेरपि प्रमाणयोजनाप्रमेयता स्यात्, तथा चाधोलोकग्रामेषु तत्प्रकाशाप्राप्तिःप्राप्नोत्यात्माङ्गलस्यानियतत्वेनाव्यवहाराङ्गतया रविप्रकाशस्योच्छ्रययोजनप्रमेयत्वात्, तस्य चातिलघुत्वेन प्रमाणयोजनप्रमितक्षेत्राणामव्याप्तिरिति, यच्चेहेषत्प्राग्भारायाः पृथिव्या लोकान्तस्य चान्तरं तदुच्छ्याङ्गलनिष्पन्नयोजनप्रमेयमित्यनुमीयते, यतस्तस्य योजनस्योपरितनक्रोशस्य षड्भागे सिद्धावगाहना धनुस्त्रिभागयुक्तत्रयस्त्रिंशदधिकधनुःशतत्रयमानाभिहिता, सा चोच्छ्रययोजनाश्रयणत एव युज्यत इति, उक्तञ्च, ईसीपब्भाराए उवरिं खलु जोयणस्स जो कोसो। कोसस्स य छब्भाए सिद्धाणोगाहणा भणिया॥१॥ इति / (ईषत्प्रारभाराया उपरियोजनस्य यः क्रोशः खलु क्रोशस्य च षष्ठो भागः एषा सिद्धानामवगाहना भणिता॥१॥) 11 देसूणं जोयणं ति सिद्ध्यलोकयोर्देशोनं योजनमन्तरमुक्तं आवश्यकेतु योजनमेव, तत्र च किञ्चिन्यूनताया अविवक्षणान्न विरोधो मन्तव्य इति // 527 // अनन्तरं पृथिव्याद्यन्तरमुक्तं तच्च जीवानांगम्यमिति जीवविशेषगतिमाश्रित्येदं सूत्रत्रयमाह 12 एस णं भंते! सालरुक्खे उपहाभिहए तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववन्जिहिति?, गोयमा! इहेव रायगिहे नगरे सालरुक्खत्ताए पच्चायाहिति, से णं तत्थ अच्चियवंदियपूइयसक्कारियसम्माणिए दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहरे लाउल्लोइयमहिए यावि भविस्सइ, से णं भंते! तओहिंतो अणंतरं उव्वट्टित्ता कहिं गमिहिति कहिं उववजिहिति?, गोयमा! महाविदेहे वासे सिज्झहिति जाव अंतं काहिति // 13 एस भंते! साललट्ठिया उण्हाभिहया तण्णा(ण्हा). दवग्गिजाला० कालमासे कालं किच्चा जाव कहिं उववजिहिति?,गोयमा! इहेव जंबूद्दीवे 2 भारहे वासे विज्झगिरिपायमूले महेसरिए |14 शतके उद्देशकः८ नरकपृथिव्यन्तराधिकारः। सूत्रम् 528 शालवृक्षयष्टिशाखोम्बरवृक्ष शाखादीनां मृत्वागतिसिद्ध्यादि प्रश्नाः / // 1086 //
Loading... Page Navigation 1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574