________________ श्रीअभय वृत्तियुतम् भाग-२ // 1042 // द्रव्ये नारकजीवत्वेन वर्तमाना मरन्तीति योगः, नेरइयाउयत्ताए त्ति नैरयिकायुष्कतया गहियाई ति स्पर्शनतः, बद्धाई ति बन्धनतः, पुट्ठाई ति पोषितानि प्रदेशप्रक्षेपतः, कडाई ति विशिष्टानुभागतः, पट्ठवियाई ति स्थितिसम्पादनेन, निविट्ठाई ति जीवप्रदेशेषु , अभिनिविट्ठाईति जीवप्रदेशेष्वभिव्याप्त्या निविष्टान्यतिगाढतांगतानीत्यर्थः, ततश्चाभिसमन्नागयाई ति, अभिसमन्वागतान्युदयावलिकायामागतानि तानि द्रव्याणि, आविइ त्ति, किमुक्तं भवति? अणुसमयं ति, अनुसमयं प्रतिक्षणम्, एतच्च कतिपयसमयसमाश्रयणतोऽपि स्यादत आह निरंतरं मरंति त्ति निरन्तरमव्यवच्छेदेन सकलसमयेष्वित्यर्थः, म्रियन्ते विमुञ्चन्तीत्यर्थः, इतिकटु त्ति, इतिहेतो:रयिकद्रव्यावीचिकमरणमुच्यत इति शेषः, एतस्यैव निगमनार्थमाह से तेणतुण मित्यादि। 22 एवं जाव भावावीचियमरणे त्ति, इह यावत्करणात् कालावीचिकमरणं भवावीचिकमरणं च द्रष्टव्यम्, तत्र चैवं पाठः कालावीइयमरणे णं भंते! क. प०?, गोयमा! चउब्विहे प०, तंजहा- नेरइयकालावीइमरणे 4, से केण० भंते! एवं वु. नेरइयकाला. 2?, गो.! जन्नं ने० नेरइयकाले वट्टमाणे इत्यादि, एवं भवावीचिकमरणमप्यध्येयम् / 25 नैरयिकद्रव्यावधिमरणसूत्रे जण्ण मित्यादि, एवं चेहाक्षरघटना, नैरयिकद्रव्ये वर्तमाना ये नैरयिका यानि द्रव्याणि साम्प्रतं म्रियन्ते त्यजन्ति तानि द्रव्याण्यनागतकाले पुनस्त इति गम्यम्, मरिष्यन्ते त्यक्ष्यन्तीति यत्तन्नैरयिकद्रव्यावधिमरणमुच्यत इति शेषः, से तेणट्टेण मित्यादि निगमनम् // 31 पण्डितमरणसूत्रेणीहारिमे अणीहारिमे त्ति यत्पादपोपगमनमाश्रयस्यैकदेशे विधीयते तन्निर्हारिमम्, कडेवरस्य निर्हरणीयत्वात्, यच्च गिरिकन्दरादौ विधीयते तदनिर्हारिमम्, कडेवरस्यानिर्हरणीयत्वात्, नियम अप्पडिकम्मे त्ति शरीरप्रतिकर्मवर्जितमेव, चतुर्विधाहारप्रत्याख्याननिष्पन्नं चेदं भवतीति, 32 तं चेव त्ति करणानिर्हारिममनिर्झरिमं चेति दृश्यम्, सप्रतिकर्मैव चेदं भवतीति // 496 // त्रयोदशशते सप्तमः // 13-7 // 13 शतके उद्देशक: 7 भाषाधिकारः। सूत्रम् 496 आवीचिकावध्यात्यंतिकबालपंडितपञ्चमरणभेदप्रभेद प्रश्नाः / पादोपगमनभक्तप्रत्याख्यान पंडितमरण भेदप्रश्राः / // 1042 //