Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 536
________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 1058 // दर्शयन्नाह तत्थ ण मित्यादि तत्र तयोर्मध्ये सुहवेयणतराए चेव त्ति, अतिशयेन सुखेन मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनमनुभवनं यस्यासौ सुखवेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, सुहविमोयणतराए चेव त्ति, अतिशयेन सुखेन विमोचनं वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्ययस्तथैव / तत्थ ण मित्यादि, मोहजन्योन्माद इतरापेक्षया / दुःखवेदनतरो भवत्यनन्तरसंसारकारणत्वात्, संसारस्य च दुःखवेदनस्वभावत्वात्, इतरस्तु सुखवेदनतर एव, एकभविकत्वादिति, तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वार्त्तिकानां तस्यासाध्यत्वात्, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति , आह च सर्वज्ञमन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः / मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः? // 1 // 2 इदं च द्वयमपि चतुर्विंशतिदण्डके योजयन्नाह नेरइयाण मित्यादि, पुढविक्काइयाण मित्यादौ यदुक्तं जहा नेरइयाणं ति तेन देवे वा से असुभे पोग्गले पक्खिवेज्जे त्येतद्यक्षावेशे पृथिव्यादिसूत्रेष्वध्यापितम्, 3 वाणमंतरे त्यादौ तु यदुक्तं जहा असुरकुमाराणं ति तेन यक्षावेश एव व्यन्तरादिसूत्रेषु, देवे वा से महड्डियतराए इत्येतदध्यापितम्, मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति // 503 // 4 अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह, अत्थि ण मित्यादि, अत्थि त्ति, अस्त्येतत्, पज्जन्ने त्ति पर्जन्यः, कालवासि त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौवर्षी चेति कालवर्षी, वृष्टिकायं प्रवर्षणतो जलसमूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम्, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, 5 शक्रप्रवर्षक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह जाह इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, स च कालवर्षी काले जिन १४शतके उद्देशक:२ उन्मादाधिकारः। सूत्रम् 503 यक्षावेशमोहोउन्मादप्रकारौ, नै०असु० आदीनामुन्मादप्रकार: | तस्यहेत्वादिप्रश्नाः / सूत्रम् 504 इन्द्रासुरादयो जिनजन्मादिसु केनप्रकारेण मेघवृष्टिं प्रकुर्वन्त्यादिप्रश्नाः। // 1058 //

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574