________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 1058 // दर्शयन्नाह तत्थ ण मित्यादि तत्र तयोर्मध्ये सुहवेयणतराए चेव त्ति, अतिशयेन सुखेन मोहजन्योन्मादापेक्षयाऽक्लेशेन वेदनमनुभवनं यस्यासौ सुखवेदनतरः स एव सुखवेदनतरकः, चैवशब्दः स्वरूपावधारणे, सुहविमोयणतराए चेव त्ति, अतिशयेन सुखेन विमोचनं वियोजनं यस्मादसौ सुखविमोचनतरः, कप्रत्ययस्तथैव / तत्थ ण मित्यादि, मोहजन्योन्माद इतरापेक्षया / दुःखवेदनतरो भवत्यनन्तरसंसारकारणत्वात्, संसारस्य च दुःखवेदनस्वभावत्वात्, इतरस्तु सुखवेदनतर एव, एकभविकत्वादिति, तथा मोहजोन्माद इतरापेक्षया दुःखविमोचनतरो भवति, विद्यामन्त्रतन्त्रदेवानुग्रहवतामपि वार्त्तिकानां तस्यासाध्यत्वात्, इतरस्तु सुखविमोचनतर एव भवति यन्त्रमात्रेणापि तस्य निग्रहीतुं शक्यत्वादिति , आह च सर्वज्ञमन्त्रवाद्यपि यस्य न सर्वस्य निग्रहे शक्तः / मिथ्यामोहोन्मादः स केन किल कथ्यतां तुल्यः? // 1 // 2 इदं च द्वयमपि चतुर्विंशतिदण्डके योजयन्नाह नेरइयाण मित्यादि, पुढविक्काइयाण मित्यादौ यदुक्तं जहा नेरइयाणं ति तेन देवे वा से असुभे पोग्गले पक्खिवेज्जे त्येतद्यक्षावेशे पृथिव्यादिसूत्रेष्वध्यापितम्, 3 वाणमंतरे त्यादौ तु यदुक्तं जहा असुरकुमाराणं ति तेन यक्षावेश एव व्यन्तरादिसूत्रेषु, देवे वा से महड्डियतराए इत्येतदध्यापितम्, मोहोन्मादालापकस्तु सर्वसूत्रेषु समान इति // 503 // 4 अनन्तरं वैमानिकदेवानां मोहनीयोन्मादलक्षणः क्रियाविशेष उक्तः, अथ वृष्टिकायकरणरूपं तमेव देवेन्द्रादिदेवानां दर्शयन् प्रस्तावनापूर्वकमाह, अत्थि ण मित्यादि, अत्थि त्ति, अस्त्येतत्, पज्जन्ने त्ति पर्जन्यः, कालवासि त्ति काले प्रावृषि वर्षतीत्येवंशीलः कालवर्षी, अथवा कालश्चासौवर्षी चेति कालवर्षी, वृष्टिकायं प्रवर्षणतो जलसमूहं प्रकरोति प्रवर्षतीत्यर्थः, इह स्थाने शक्रोऽपि तं प्रकरोतीति दृश्यम्, तत्र च पर्जन्यस्य प्रवर्षणक्रियायां तत्स्वाभाव्यतालक्षणो विधिः प्रतीत एव, 5 शक्रप्रवर्षक्रियाविधिस्त्वप्रतीत इति तं दर्शयन्नाह जाह इत्यादि, अथवा पर्जन्य इन्द्र एवोच्यते, स च कालवर्षी काले जिन १४शतके उद्देशक:२ उन्मादाधिकारः। सूत्रम् 503 यक्षावेशमोहोउन्मादप्रकारौ, नै०असु० आदीनामुन्मादप्रकार: | तस्यहेत्वादिप्रश्नाः / सूत्रम् 504 इन्द्रासुरादयो जिनजन्मादिसु केनप्रकारेण मेघवृष्टिं प्रकुर्वन्त्यादिप्रश्नाः। // 1058 //