Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 254
________________ श्रीवस्तुपाल 2 | कटाहिः कार्यते तत्र, भोज्यन्ते शिल्पिनोऽखिलाः । पीयूषोपमभोज्यानि, सर्वदापि यथारुचि ॥५४॥ अभ्यङ्गस्नानविश्रामविधानार्थ अष्टमः चरितम् । पृथक् पृथक् । प्रत्येकं सूत्रधाराणां, क्रियते जनयोजना ॥५५॥ निर्विलम्बं ततो धर्मकृत्यानि स्युर्महीतले । सर्वः सन्तोषमायातः, प्रस्तावः। सोत्साहः स्यात्क्रियासु यत् ॥५६॥ श्रुत्वेति वचनं तस्याः, स सर्वत्र तथाऽकरोत् । कान्तकान्तोपदेशोऽयं, सुस्वादुरमृतादपि ॥५७॥ ॥१२०॥ | निमिता मन्त्रिणा तेन, रीतिं सर्वत्र तादृशीम् । दृष्ट्वा हृष्टाशयाः सर्वे,सूत्रधारादयो जनाः ॥५८॥ सत्कृत्यानि सृजन्ति स्म, त्वरमाणाः | सयौक्तिकम् । उदारमनसां येन, वसुधैव कुटुम्बकम् ।।५९।। युग्मम् ।। ततश्चन्द्रावतीं प्राप्य, समं दयितया तया । साधर्मिकाणां | वात्सल्यमतुल्यं सचिवो व्यधात् ॥६॥ तन्निवासिजनश्रेणिं, भोजनाच्छादनादिभिः । तथा सन्तोषयामास, समं तत्रत्यभूभुजा ॥६॥ | युग्मम् ।। प्रापत् प्रह्लादनाधीश, श्रीपार्श्व प्रणिपत्य सः । ततः सत्यपुरे श्रीमद्वीरबिम्बनिनंसया ॥६२॥ श्रीवीरं तत्र गाङ्गेयं, प्रपू|ज्य विधिना सुधीः । आर्हतानां च वात्सल्यं, मुनीनां पूजनं व्यधात् ॥६३॥ ततः शङ्खश्वराधीशमभ्यर्च्य पन्नगध्वजम् । धवलकपुरं * प्रापदतुच्छोत्सवपूर्वकम् ॥६४॥ सोऽथ निष्पन्नमाकर्ण्य, नेमिमन्दिरमव॒दे । हेमटङ्कायुतं पुंसे, ददौ वर्धापनाकृते ॥६५॥ श्रीवीरधवलाधीश, सान्तःपुरपरिच्छदम् । द्विसप्तराणकोपेतं, सममादाय सम्मदी ॥६६॥ प्रासादप्रतिमादीनां, प्रतिष्ठार्थ कुटुम्बयुम् । अबुदोर्वी| धरं प्रापद्वस्तुपालः ससोदरः ॥६७॥ युग्मम् ॥ श्रीजावालिपुरस्वामी, नदुलनगरेश्वरः । चन्द्रावतीपुरीनेता, त्रयोऽमी मण्डलेश्वराः ॥ ६८|| अन्येऽपि शतशस्तत्र, पुरग्रामाधिकारिणः । तदाहूतास्तदाऽऽजग्मुः, परिवारेण संयुताः ॥६९।।आगादुदयसिंहस्य, राज्यभारMake धुरंधरः । यशोवीर इति ख्यातो, मन्त्री वाक्पतिसनिमः ॥७०॥ महाजनास्तथा सर्वे, श्राद्धानण्यश्च लक्षशः। आययुर्विहितोत्साहा-* |स्तदुत्सवदिदृक्षया ॥७१॥ चतुर्भिः कलापकम् ।। श्रीमद्विजयसेनाद्याः, सूरयः शीलशालिनः । सप्रतिष्ठाः प्रतिष्ठार्थमैयरुर्मुनिभि-II ॥१२०॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286