Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
| सेवकैः । प्रसादस्तत्र भृभर्तुः, कारणं परमं स्मृतम् ।।८॥ इत्याकर्ण्य वचस्तस्या, गीर्देव्या इव वास्तवम् । भुञ्जानो जगतीजानिर्विसितोऽन्तर्व्यचिन्तयत् ॥९॥ अहो मधुरता पाचामहो गम्भीरता हृदः । अहो विनयशालित्वं, शीलस्याहो परा स्थितिः॥१०॥ यथावस्थितसद्भावप्रकाशप्रकटोदया। अहो निष्कृत्रिमा खामिभक्तिरस्या हृदि स्थिता ॥११॥ साक्षाद्देवतयेवोक्तमनया विनयाद्वचः। तदेषा वर्णिनी नूनं, कुलत्रितयपावना ॥१२॥ ततः प्रशान्तकोपात्मा, भुक्त्वाऽऽचान्तः शुभाम्बुभिः । आस्वाद्य स्वादु ताम्बूलं सुरभिश्चन्दनद्रवैः ॥१३॥ तस्या ज्योत्कारमाधाय, विस्मेरवदनोऽवदत् । कस्य सारङ्गनेत्रेयं, वामाङ्गस्थितिशालिनी ॥१४॥
तमुवाच जनः कश्चिद्वेश्मसर्वस्खदेवता । तेजःपालमहामात्यदयिता विदिता गुणैः॥१५॥ लक्षणैरुपलक्ष्याथ, तं चौलुक्यक्षितीश्वरम् । परिवारजनो मत्रियुगलाय न्यवेदयत् ॥१६।। ससम्भ्रमं समागत्य, सानुजः सचिवाग्रणीः । नत्या प्रसादयामास, विनयाश्चितया नृपम् ।।१७।। व्याजहार धराधीशस्तदै(2)वं प्रीतिपूरितः। भवन्तावेव मूर्धन्यौ, धन्यौ च गृहमेधिषु ।।१८॥ वेश्मशृङ्गारमाणि-| क्यकल्पा कल्पलतोपमा। मध्येगेहं वसत्येषा, सर्वाभीष्टार्थसाधनी ॥१९॥ अस्याः सद्वाक्यपीयूषास्वादशीतलचेतसः । आसीत पिशुनभूकोपतापोपशमनं तनौ ॥२०॥ ततः सिंहासने हैमे, हेमाद्रिसदृशे नृपम् । निवेश्य सचिवोऽपृच्छद्गुहागमप्रयोजनम् ॥२॥ तस्मै यथास्थितं सौवं. स्वरूपं जल्पतस्तदा। सबन्धुर्दर्शयामास, मत्री भक्तिमनुत्तराम् ।।२२॥ पञ्चरत्नाभिधं वाजिरत्नं रत्नावलीयुतम् । प्राभृतीकृत्य तं मत्री, प्रीणयामास साञ्जसम् ॥२३।। अन्यदा सचिवं साह, हसन् चौलुक्यभूपतिः। सभासिंहासनारूढः(वाजिशाला-| मुपासीनः), सामन्तश्रेणिभिर्वृतः ॥२४॥ वस्तुपालमहामात्य, मत्तोऽपि भवतो व्ययः । अधिकः क्रियते कस्माद्, धनकोटीभिरन्वहम् ॥२५॥ बलानामिह सर्वेषां, गरीयः सम्पदा बलम् । तदभावे गृही लोके, समर्थोऽपि तृणायते ॥२६॥ निर्गुणोऽपि गुणाढ्यानां,

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286