Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas

View full book text
Previous | Next

Page 285
________________ :-883888888888888888888888888 तपोगच्छेऽभवद्भूम्ना, महिम्ना विश्वविश्रुतः । जगच्चन्द्रगुरुः श्रीमान्, सम्यग् ज्ञानक्रियानिधिः ॥१॥ श्रीदेवेन्द्रगुरुस्तस्य, पट्टभूत्प्रकटप्रभः । यदेशनासमाजेऽभूद्वस्तुपालः सभापतिः ||२|| तच्छिष्याः क्षितिविख्याता, विद्यानन्दमुनीश्वराः । अजायन्त जगत्पूज्या, ज्यायोज्ञानक्रियागुणैः ||३|| तत्पट्टोदय भास्वानासीनिस्सीमतेजसां राशिः । श्रीधर्मघोषगणभृत्सच्चक्रानन्दिगोविभवः || ४ || ततश्च - श्रीसोमप्रभ इत्यासीत्सूरिः सीमा महात्मनाम् । व्यधाद्युगोत्तमं वीरशासनं यो युगोत्तमः ॥ ५ ॥ ततः शतक्रतुस्तुत्यः, श्रीसोमतिलकाह्वयः । सूरिभूरियशा जज्ञे, विज्ञेषु प्रथितो धुरि ||६|| श्रीदेवसुन्दरगुरुर्गरिमाम्बुराशिर्वित्रासितारिरभवद्भुवनातिशायी । तत्पट्ट| पङ्कजरविः पविपाणितेजा, भृजानिवन्दितपदः शिवमार्गदर्शी ||७|| सुरियुगोत्तमसमोऽजनि तस्य पट्टे, श्रीसोमसुन्दरगुरुर्गुरुभाग्यशाली । यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं, सर्वाङ्गचङ्गिमगुणैस्तुलयन्ति सन्तः ||८|| तच्छिष्यः प्रथमः समर्थमहिमा त्रैविद्यगोष्ठीगुरुः, सूरिः श्रीमुनिसुन्दरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभाशाली श्रीजयचन्द्र इत्यभिधया | सर्वत्र लब्धोदयः ||९|| त्रैविद्यगोष्ठीगुरुरात्मवेत्ता, येषां विनेयो जिनमण्डनाख्यः । श्रीवाचकेन्द्रोऽजनि जन्तुजातजीवातुवाग्वादिघ| टामृगेन्द्रः ॥ १० ॥ विक्रमार्कान्मिते वर्षे, विश्वनन्दर्षिसंख्यया (१७९३) । चित्रकूट पुरे पुण्ये, श्रीजिनेश्वरसद्मनि ॥ ११ ॥ जिनहर्षगणिः शिष्यः, श्रीजयचन्द्रसद्गुरोः । जिनेन्द्रशासनौन्नत्यहेतुवृत्तमिदं व्यधात् ॥ १२॥ इति ॥ 0=0 ॥ समाप्तम् ॥ 888888888888888888888888881

Loading...

Page Navigation
1 ... 283 284 285 286