Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 332
________________ वैयाकरणभूषणे पत्तेरिति । अत एव ध्वनिरुभयसिद्ध एव । तथा च ध्वनिस्फो. टयोर्मध्ये नित्यवर्णाङ्गीकारे गौरवात् । मानाभावाच्च । ध्व. नीनामेव गत्वादिमन्त्वं तएव च वर्णाः । एवं च सा वर्णावली तत्तदर्थविशेषेणागृहीतसम्बन्धा स्फोटतदेकत्वाद्यभिव्यजिका । गृहीतसम्बन्धो वा । नाघः । काव्यादिश्रवणे तत्तदर्थैरगृहीतसम्बन्धस्यापि इदमेकं पदमिदमेकं वाक्यमित्यादिस्फोटस्य तत्सं. ख्यायाश्च प्रतीत्यापत्तेः । न द्वितीयः । एवं हि स्फोटाभावेप्येकार्थाभिव्यञ्जकत्वरूपमेकं धर्ममादायवेक पदमित्युपपत्तेनानयोपपत्त्या तत्सि द्धिः। उक्तं च । 'यस्त्वेकप्रत्ययः सोपि बाधकेन बलीयसा। औपाधिकतया नीतस्तस्मात्स्फोटो न मानभागि,ति । एवं वा. चकत्वमपि तादृशस्यैव स्यादिति न साप्यनुपपत्तिः । नापि त. देवेदं पदं तदेवेदं वाक्यमिति प्रतीत्या तत्सादिः । तदेवेदं नखं तएते केशा सोयं समुद्र इतिवदुपपत्तेः । अतिरिक्तकेशादिकमनुभवानारूढमिति चेन्न । गौरित्यत्रापि गकारौकारविसर्गातिरिक्तस्फोटानुभवस्य कस्याप्यभावात् । किं च । पर्यायशब्देष्वेक एव स्फोटो नाना वा । घटकलशादिपर्यायाभिव्यक्ते स्फोटे गृहीतशक्तिकस्य पुंसो ऽप्रसिद्धपर्यायश्रवणपि प्रागगृहीतशक्तिकस्यैव स्फोटस्य तेनाभिव्यक्त्यार्थप्रतीत्यापत्तेः । न च त पर्यायाभिव्यक्ते स्फोटे शक्तिहस्तत्पर्यायश्रवणेधीहेतुरिति वाच्यम् । एवं हि प्रतिपर्यायं शक्तिग्रहावश्यम्भावे तत्तत्पर्यायगतशक्तिग्रहहेतुताया एवोचितत्वात् । तथा सति भक्तिग्रहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन सत्त्वेवच्छेदकगौरवात । न द्वितीयः । अनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लप्तवर्णेष्वेव शक्तिकल्पनस्य लघुत्वात् । तस्मात्स्फोटवादो ऽयुक्त एवेति न्यायरक्षापणिपरिमलयोनिष्कर्षो

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398