Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 374
________________ ३० पदार्थदीपिका । न्वयबोध इति चेन्न । प्रथमवाक्यस्याबोधकत्वप्रसङ्गात् । योजनावाक्यं च तात्पर्यग्राहकत्वेन प्रकरणादिवदुपयुज्यते । एवं चा. कांक्षायोग्यतासत्तिवशात् पदार्थानां परस्परविशेषणविशेष्याव. गाहिविशिष्टशब्दबोधसम्भवान्नानुपपत्तिरिति दिक ।। ... मीमांसकास्तु कार्यान्विते पदानां शक्तिः। तथाहि । प्रयोज्य. प्रयोजकयोरानयनानयनादिव्यवहारौ पश्यतो बालस्यानयननयनादि कार्यत्वेन ज्ञात्वा ऽहं प्रवसे एवमयमपि तथात्वेन ज्ञात्वा प्रवृत्तस्तज्ज्ञानं च शब्दादिति शब्दस्तद्विशिष्टे शक्त इति प्रथमश. क्तिग्रहात् । तथा च कार्यतासामान्यस्य सर्वशब्दादवगमपि वि. शेषतस्तदुपस्थिति विना बोधार्यवसानाभावादबोधकत्वमेव त. च्छून्यानामर्थवादवाक्येवदान्तवाक्यानामित्याहुः ॥ .. वेदान्तिनस्तु । अन्विते पदानां शक्तिरित्यन्वयांशबोधोपपतिर्न तु कार्यत्वांशे सर्वपदानां शक्तिस्तस्य विशेषतस्तद्वोधकपदादेवोपस्थितिसम्भवेन व्यर्थगौरवग्रासात् । अतः कार्यत्वांश विनापि मोक्षरूपमहाप्रयोजनवदात्मस्वरूपबोधकत्वाद्वेदान्ताः प्र. माणमित्याहुः ॥ ___ पदानां पदार्थेष्विव वाक्यस्य संसर्गरूपे ऽन्वये शाक्तः । अत एव तस्य वाक्यार्थ इति किंवदन्ती सङ्गच्छतइति वैयाकरणाः ।। व्युत्पादितं चास्माभिर्मतान्तरनिराकरणपूर्वकमेतन्मतं वैयाकरणभूषणे । नन्वेवमपि गङ्गायां घोष इत्यत्र गङ्गापदात्तीरमत्ययः कथं, तत्र गङ्गापदशक्तेरभावादिति चेत् । सत्यम् । लक्षणारूपवृ. स्यन्तरात्तदुपस्थितेः ॥ अथ केय लक्षणा । उच्यते । शक्यसम्बन्धो लक्षणा । गङ्गा पदशक्यो गङ्गाप्रवाहस्वत्सम्बन्धस्तीरेस्त्येव । तथा च स्वशक्यप्रवाहसंयोगरूपसम्बन्धेन गङ्गापदात्तरािपस्थितिः । स्वशक्येन

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398