Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका । देतैः प्रमाणैर्जायमाना बुद्धिरनित्यैव मानसप्रत्यक्षम च, जानामीति पनसानुभवात् ।।
प्राभाकरास्तु सर्वा बुद्धिः स्वप्रकाशा त्रितयविषयिणी च । आत्मस्वात्माविषयश्चेति त्रयम् । घटमहं जानामीति सर्वज्ञानानु. भवात्, ज्ञानस्य परप्रकाश्यत्वे तदपि परप्रकाश्यमित्यज्ञायमानस्वीकारात् अन्धपरम्परया निद्राद्यभावो वा स्यादित्याहुः ॥
भाडास्तु ज्ञानेन विषये शातता जन्यते ज्ञातो घट इत्यनु. भवात् धात्वर्थक्रियाजन्यफलशालित्वेन घटं जानामीत्यादौ कर्मत्वमप्येवं सङ्गच्छते । तथा च तया ज्ञाततया ज्ञानमनुमीयते । घटो ज्ञानविषयो ज्ञाततावत्वादिति । एवं चातीन्द्रियं ज्ञानमित्याहुः । एवं स्वप्रकाशविधया ज्ञाततया वा ज्ञाने गृह्यमाणे तद्तं याथार्थ्यरूपं प्रामाण्यमपि गृह्यते ज्ञानग्राहकसामग्रीग्राह्यत्वरूपस्वतस्त्वस्य तत्राभ्युपगमादिति मीमांसकाः ॥ .. ..नैयायिकास्तु एवं सति जातं ज्ञानं प्रमा नवेति संशयानुपपत्तेर्नेदं युक्तम् । किं तु मनसा ज्ञानं गृह्यते । पुनर्विषयलाभोत्तरं जातं ज्ञानं प्रमा, फलवत्प्रवृत्तिजनकत्वादित्यनुमानात्तद्ग्रहः । मीमांसकानामविसंवादिप्रयुक्ताऽप्रामाण्यग्रहवत् । अन्यथा त. स्यापि स्वतो ग्राह्यत्वापत्तिश्च इति ज्ञानग्राहकविशेषाग्राह्यत्वरूपं परतो ग्राह्यं प्रामाण्यमाहुः ॥
भक्तिश्रद्धादयोपि बुद्धिभेदाः। तत्राराध्यत्वेन ज्ञानं भक्तिः, वेदवोधितफलावश्यम्भावनिर्णयः श्रद्धेत्यन्यत्र विस्तरः ॥
मुखत्वजातिमद्धर्ममात्रजन्यतावच्छेदकजातिमद्वा निरुपाविषमास्पदं वा सुखम् ॥ ...तच्चतुर्विधं वैषयिकं मानोरथिकमाभ्यासकमाभिमानिक च । विषयसाक्षात्कारजमाद्यम् । विषयध्यानजं मानोरथिकम् ।

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398