Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 390
________________ पदार्थदीपिका । प्रतीतेः । तदवच्छिन्न आय: । द्वित्वादि अनेकपर्याप्तम् । घटी द्वावितिवदेको द्वावित्यप्रतीतेः । तदवच्छिन्न एकघटवति घटौ न स्त इति प्रतीतिविषयो ऽन्त्यः । न च प्रतियोगिमति कथम. भाव इति वाच्यम् । पुरुषमात्रवति दण्डी पुरुषो नास्तीति प्र. सीतेर्दण्डविशिष्टपुरुषाभावस्वीकारेण प्रतियोगितावच्छेदकविशिष्टस्यैवाभावविरोधित्वात् । न चेयं प्रतीतिर्दण्डाभावं पुरुषाभावं वा ऽवगाहते । केवलदण्डपुरुषवति तत्संयोगवति पुरुषे दण्डे च दण्डी पुरुषो नास्तीति अनुगतप्रतीतेरिति दिक् ॥ तादात्म्यारोपज. न्यप्रतीतिविषयाभावो भेदः । घटः पटो नेत्यारोप्यैव तनिरोधात् । सोपि घटः पटो न, पटो न घटपटाविति प्रतीतेः पूर्ववद् द्विधा । न च घटवति घटाभावो नास्ति घटो न घटभिन्न इति प्रतीतेरभावाभावोपि सिद्धयेत् । एवं सोपि नास्तांति प्रतात्या तदभावोपीत्यनवस्थेति शङ्कयम् । अत्यन्ताभावाभावः प्रतियोग्येव घटादिः। अन्योन्याभावाभावः प्रतियोगितावच्छेदकघटत्वादिरूप इति स्वीकारात् । ततोतिरेके प्रमाणाभावादिति प्राञ्चः । नव्यास्त्वभावत्वेन प्रतीघटादिप्रतियोगितदवच्छेदकयोः समानवृत्तिको ऽतिरिक्त एवात्यन्ताभावभेदयोरभावः । तदभावस्तु घटाभाव एवेति नानवस्था । एवं सस्य पागभावः प्रागभावस्य ध्वंसश्चातिरिक्त एवेत्याहुः । नन्वधिकरणमेवास्तु कुतस्तदतिरिक्ततत्स्वीकारः कुतो वा तद्ग्रहणाय विशेषणतास्वीकारः । भूतले घटो नास्तीत्याधाराधेयभावस्याभेदे. पि घटाभावे घटो नास्ति इतिवदुपपत्तेः । अत्यन्ताभावस्य नित्यत्ववादिना घटभून्यभूतले घटानयनोत्तरं तत्सम्बन्धाभावमात्र. स्वीकारवदस्माभिस्तदा तदधिकरणे घटाभावत्वसम्बन्धो नास्तीत्यभ्युपेयम् । एतेन तदपिकरणे घटाभावो न वा।आधे घट

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398