Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 389
________________ पदार्थदीपिका। श्यादयोपिपदार्यान्तरमाणे सन्तीति कथं षडेव भावाइति । मैवम् । अविद्यारूपा वाचकत्वशक्तिस्ताचदीश्वरेच्छारूपेत्युक्तम् । पन्ही दाहानुकूला शक्तिस्तु कारणतारूपसामान्यमेव । न च मण्यादिप्रतिबन्धकसन्त्वे दाहापतिवारणाय प्रतिबन्धकापनोयशक्तिस्वी. कार आवश्यक इति वाच्यम् । मण्यमावादेरापि कारणत्वकल्पनया तमिरासात् । नानृतं वददिति विधेयस्यानृतवचननिषेधरूपस्याभावस्य ऋत्वस्य पूर्वमीमांसायां ऋत्वधिकरणे व्युत्पादि. तत्वात् । सादृश्यं च तद्भिन्नत्वे सति तद्तभूयोधर्मवत्त्वरूपं सा. मान्यमेवोत दिक् ॥ अभावो द्विधा संसर्गाभावो भेदश्च । संसर्गारोपजन्यप्रती. तिविषयाभाव आधः। भूतले घटो नेत्यारोप्यैव निषेधप्रतीतेः । स विधा प्रागभावो ध्वंसो ऽत्यन्ताभावश्च । भविष्यतीति प्र. तीतिविषयो विनाश्यभावः मागभागः । तस्य ध्वंसः प्रतियोगी। तद्ध्वंसश्च उभयकाले घटनागभावो नष्ट इति प्रतीतेः ॥ उत्प. 'त्तिमानभावो ध्वंसः । घटध्वंसो जात इति प्रतीतेः । तत्मागभावश्च । घटस्तत्पागभावश्च उभयत्रापि ध्वंसो भविष्यतीति प्र. तीतेः । स च न विनाशी, ध्वंसो नष्ट इति प्रतीत्यभावात् । व्ययध्वंसधाराकल्पनायां प्रमाणाभावाच्च । उत्पत्तिविनाशशून्यः संसर्गाभावो ऽस्यन्ताभावः । इदे वन्हिर्नास्ति इति भूतलादौ घ. टापसरणोत्तरं तदानयनात्पूर्व च प्रतीतस्य तस्य घटकाले सस्वेपि न प्रतीतिः। घटज्ञानेन प्रतिबन्धात् । प्रतियोगिदेशान्य. देशत्वस्यानतिप्रसजकसम्बन्धवादित्याचार्याः । उत्पत्तिवि. नाशशीलः प्रतियोगिसमानाधिकरणस्तदीय एव तत्र संसर्गाभाव इत्यन्ये । स द्विधा एकपर्मिमात्रपर्याप्तधर्मावच्छिन्नप्रतियोगिताको ऽन्यश्च । घटत्वादि प्रत्येकपर्याप्तमेकस्मिन्नपि घट इति

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398