Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 392
________________ ५४ पदार्थदीपिका। ध्वंसो मुक्तिः। आत्यन्तिकत्वं च समानाधिकरणदुःखतत्मागमावाऽसपानकालिकत्वम् । इदानीं सुखदुःखध्वंसस्यास्मदीयदुःखभागभावसमानकालिकत्वात्स्वेत्यादि । इदानीमस्मदीयदुःखध्वंसस्य सुषुप्तिकाले दुःखसमानकालिकत्वसत्त्वात्मागभावेति । उपान्त्यदुःखध्वंसस्य तत्मागभावासमानकालिकत्वाद् दुःखति । ताशश्च मोक्षस्तत्त्वज्ञानेनात्मान जन्यते । तद्यथा । तत्वज्ञानेन मिथ्याज्ञानवासनानिवृत्तौ रागद्वेषमोहानां निवन्त्या कर्मान्तरेषु प्रवृत्तिरेव न, पूर्वसंस्कारात् प्रवृत्त्या कर्मोत्पत्तावपि नादृष्टोत्पत्तिः । अदृष्टहेतुमिथ्याज्ञानस्य तत्त्वज्ञानप्रागभावस्य वा अभावात् । त. था चोक्तं वाचस्पतिमित्रैः । मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ धर्माधर्मावरं जनयत इत्यादिना । प्राचीनादृष्टं च सानाग्निसहकृतयोगवशात्कायव्यूहेन युगपत् सर्वभोगानश्यति । तथा च पूर्वकर्मसमाप्तौ भोक्तव्यकर्मान्तराभावाग्जन्माभावे सिद्धे वर्तमानशरीरभोग्यसुखदुःखनाशसिद्धौ चात्यन्तिकदुःखनि. त्तिरिति । तथा चाक्षपादीयं सूत्रम् । 'दुःखजन्मप्रवृत्तिदोषमिध्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति । ननु किं तत्तत्त्वज्ञानं किंवा मिथ्याज्ञानं कथं वा तयोनिवर्त्तनिवर्तकभावः । उच्यते । देहेन्द्रियादावनात्मन्यात्मत्वबुद्धिरेव मिथ्याज्ञानम् । तन्तु संसारिणामनादिप्रवाहागतं दुर्बुद्धिकल्पितकुतर्कात् दृढतरं जायते । तथा लौकायतिकोक्तयुक्तया देहात्मवादे, नित्यात्मवा. दसाधकयुक्तिभिनित्याणुमनएवात्मति पक्षे, सकलशरीरव्यापिदुःखाद्युपलब्धिहेतुभिः सकलदेहव्यापकत्वगादीन्द्रियसमुदायात्मपक्षे, इन्द्रियोपघातपि बुद्धिसत्त्वमात्रेण सुखाद्युपलब्धेर्बुद्धयात्मवादे, तदभावपि सुषुप्तौ सात्मकत्वव्यवहारात प्राणात्मवादे । ततश्च तमिरासार्थ पञ्चानां तेषामात्मतन्त्वे युगपदेव कस्य

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398