Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 381
________________ पदार्थदीपिका। निषिद्धपरदारगमनादिजन्यतावच्छेदकजातिमानधर्मः ॥ धर्मत्ववदेव ता अपि नाना तत्तदुःखजनकतावच्छेदिकाश्च । ननु यज्ञादिजन्यालीन्द्रियधर्माधर्मयो कि मानम् । उच्चते । इष्टसाधनत्ववाचिना विधिना अनिष्टसाधनत्वबोधकनिषेधेन यागपरदारगमनादेस्तथात्वं बोध्यते । न च चिरविनिष्टस्य कालान्तरभाविस्वर्गादिसाधनत्वं साक्षायु कमतो व्यापारत्वेन तावभ्युपेयौ । न च यागादिध्वंस एव व्यापारोस्त्विति वाच्यम् । एवं हि कारणीभूताभावप्रतियोगित्वेन यागादेः मतिबन्धकत्वापत्तेः । किं च कीर्तितधर्मादपि फलापत्ति व्यापारसत्वात् । अकीर्तितयागत्वेन कारणतति न कीर्तितात्फलामति चेन्न । फलोत्तरकीर्तितादपि फलानापत्तेरिति दिक । एतौ धर्माधौ त्रिविधी सञ्चिता क्रियमाणो प्रारब्धसञ्जौ च । तत्र तच्छरीरारम्भकं प्रारब्धं कर्म तद्भोमैकनाश्यं जीवन्मुक्तिशास्त्रानुरोधा. व । आचं ज्ञानना 'ज्ञानानि सर्वकर्माणि भस्मसात्कुरुते तथे ति शास्त्रादिति वेदान्तिनः । सिद्धान्तिनस्तु 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभ' मिति वचनस्य प्रायश्चित्तनाशाव्यतिरेकेण सङ्कोचे प्रमाणाभावाद, सञ्चितस्यापि कायव्यूहेन भोगादेव नाशः । भस्म सात्पदं तु लाक्षणिकं शीघ्रमेव भोगानाशं लक्षयतीति दिक । कि. यमाणं ज्ञानिनि'नोत्पद्यते । 'लिप्यते न स पापेन पद्मपत्रमिवाम्भसेति' वचनात् । नन्वेवं योगिभिः क्रियमाणकर्मणो वैयर्यापत्तिरिति चेत् न । तस्य लोकसङ्ग्रहमात्रार्थत्वात् । वस्तुत-. स्तु तस्य पुत्रा दायमुपयन्ति सुहृदः साधु कृत्यां द्विः पन्तः पापकृत्या' मितिः श्रुतौ तस्य परार्थत्वं स्फुटमित्यर्वेधेयम् ॥ . . ... ..

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398