Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 380
________________ पदार्थदीपिका। सूर्यनमस्काराद्यभ्यासाजायमानं शरीरलाघवादि तृतीयम् । द्रव्यपाण्डित्यगर्वजमन्त्यम् । एवं दुःखेपि द्रष्टव्यम् ॥ दुःखत्वजातिमनिरुपाधि द्वेषास्पदं वा दुःखम् ॥ . इच्छामीत्यनुभवसिद्धेच्छात्वजातिमतीच्छा ॥ सा च सुखमोक्षयोः सुखदुःखाभाववन्त्वप्रकारकज्ञानादत्प द्यते । तत्साधने मुखदुःखाभावसाधनताज्ञानादेव स्त्रीपुत्रादौ सं. न्यासादौ च तथा ॥ द्वेष्मीत्यनुभवसिद्धजातिमान् क्रोधापरपर्यायको द्वेषः ॥ . यते इत्यनुभवसिद्धयत्नत्वजातिमान् यत्नः॥ स द्विधा जीवनयोनिरन्यश्च । जीवनादृष्टं योनिः कारण यस्य स आद्यः सर्वदा प्राणसञ्चारकारी । गुरुभारोत्तोलनधावनादौ प्रयत्नविशेषाच्छ्वासाक्रियाविशेषदर्शना द्यद्विशेषयोः का: र्यकारणभावो बाधकं विना तत्सामान्ययोरपी' ति न्यायेन मा: णक्रियासामान्ये यत्नसामान्यजन्यत्वदर्शनान्निद्रादिसकलकालिकस्य तस्यावश्यकत्वात स चातीन्द्रियः । द्वितीयो द्विधा । एको द्वेषजः सर्पादिभ्यो निवृत्तिलक्षणः । शत्रुवधादौ प्रवृत्तिरूपस्तु न द्वेषजः किं तु तन्मरणेच्छाजः । इच्छाजन्यो ऽन्यः । एतौ प्रत्यक्षौ । एते बुद्धीच्छाप्रयत्ना ईश्वरीया नित्याः जीवानामनित्याः॥ विहितयज्ञादिजन्यतावच्छेदकजातिमान धर्मः ॥ ताश्च ज्योतिष्टोमयज्ञादिजन्यतावच्छेदिका विलक्षणाः, स्वर्गादिजनकतावच्छेदिकाश्च । तत्तददृष्टे विलक्षणा न तु धर्मत्वमेका जातिर्मानाभावात्, धर्मत्वेन मुखत्वेन कार्यकारणभावाभावादिति । अत एव बांधकाभावात् विज्ञानमानन्दं ब्रह्मेति श्रुतेश्चेश्वरे नित्यसुखमस्तीति घेदान्तिनः ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398