Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 378
________________ पदार्थदीपिका । ब्धिः । तत्करणमनुपलब्धिः । स चोपलब्धनिर्णयात्मकज्ञानस्याभावः । तथाहि । वस्तुतो घटाभाववति घटो ऽस्तीति भ्रमसमये घटाभावेन सह सन्निकर्षे सत्यपि तज्ज्ञानं चोत्पद्येत अतस्तत्र घटानुपलब्धिः करणं तदभावान्न तत्र ज्ञानम् । चक्षुरादिकं चाधिकरणादिग्रहणार्थमनुपलब्धेर्योग्यतासम्पादनार्थ चोपयुज्यते । योग्यता च यद्यत्र घटः स्यात् उपलभ्यतेति तर्कसम्पत्तिरेवेति भाडाः । एतादृश्यनुपलब्धिः प्रत्यक्षसहकारिण्येवातो नानुपलब्धिः प्रमाणम् । प्रमाणान्तरकल्पने गौरवादिति नैयायिकादयः । वस्तुतो घटवति घटाभावनिर्णये सति चक्षुःसंयोगे सत्यपि घटज्ञानानुत्पत्तेरभावानुपलब्धेरपि भावग्रहे हेतुतापत्तिः । न चे. टापत्तिः । अपसिद्धान्तात् प्रमाणाभावाच्च । विवेचितं चैतदन्यत्र । तस्मानानुपलब्धिः सहकारिणी न च प्रमाणान्तरमिति तत्त्वम् ॥ .. ___ सम्भावनया जानामीति प्रतीतिसिद्धजातिमती साम्भवी ॥ तत्करणं सम्भवः । यथा ब्राह्मण इति श्रुते विद्यायाः शतमित्युक्ते दशादिसख्यायाः प्रतीतौ ॥ . अज्ञातकर्तृकं प्रसिद्धवाक्यमैतिह्यम् ॥ गङ्गेयं मथुरेयं वेदोयमिति ज्ञानमतिह्यादेव । अन्यस्याप्रसरादिति पौराणिकाः । ब्राह्मणे विद्या भविष्यतीति चोक्तकोटिकः संशय एव । शते दशेति त्वनुमानम् । तथा व्याप्तिज्ञानवतामेव ज्ञायमानत्वात् । ऐतिर्खा चेप्रमाणं चेच्छब्द एव । अन्यथा प्रमाणमेव नेति दाशनिकाः ॥ एतादृशचेष्टयेत्थमाँ बोद्धव्य इति सङ्केततच्चेष्टातो बोधस्थले च तया शब्दोपस्थितिस्ततो बोधः शाब्द एव । अ. न्यथा त्वेतादृश्या चेष्टया ऽनुमानमेवोत न हस्तनेत्रादिचेष्टातो बोधानुरोधाच्चेष्टायाः पृथक् प्रमाणत्वमपीति तान्त्रिकाः ॥ त.

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398