Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 386
________________ ४२ पदार्थदीपिका । न्यस्य कार्यमात्रस्य च कारणतावच्छेदकतया दानहननादिभिः पुण्यपापोत्पतेस्तत्कारणतावच्छेदककोटिप्रविष्टतया च घटत्वपृथिवीत्वद्रव्यत्वगोत्वादिकमावश्यकम् । उपाधेः क्लृप्तत्वेपि गौरवेणावच्छेदकत्वासम्भवाद्वाधकाभावे ऽवच्छेदकत्वं लघुधर्मएव प्रवर्त्तते इति सिद्धान्तात् । एवं बाधकाभावे ऽनुगते प्रतीत्यापि तत्सिद्धिः । स च बाधकसंग्रहः प्राचीनैरुक्तः । 'व्यक्तेरभेदस्तुल्यत्वं सङ्करो थानवस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह ' इति । घटत्वात्कलशत्वं न पृथक् जातिः तद्व्यक्तयभेदात् । द्रव्यत्वाद् गुणाश्रयत्वं न पृथक् जातिः, तुल्यव्यक्तिकत्वात् । शरीरत्वं न जातिः पृथिवीत्वादिना सङ्करमसङ्गात् । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः सङ्करः । पृथिवीत्वं विना तैजसादिशरीरे शरीरत्वं वर्तते, शरीरत्वं विना च घटादौ पृथिवीत्वं तदुभयमस्मदादिशरीरे । सामान्यत्वं न जातिस्तत्रापि सामान्यस्वीकारे ऽनवस्थाऽऽत्माश्रयान्यतरापत्तेः । आकाशत्वं घटो वा न जाति, नित्यमेकमनेकसमवेतं सामान्यमिति रूपहानात् । अत एवाभावसास्नादिमत्वं च न जातिः । समवाय उक्तलक्षणाक्रान्तोपि न जातिः सम्बन्धविरहात् । सम्बन्धिभिन्नत्वे सति संबन्ध्याश्रयत्वस्यैव सम्बन्धत्वेन स्वरूपे सम्बन्धत्वव्यवहारस्य गौणत्वात्स्वरूपसमवाययोर्वृत्तित्वाभ्युपगमेपि न क्षतिः । तच्च सामान्यं त्रिविधं परमपरं परापरं च । सकलसामान्यव्यापकं परम् । सत्ता यथा । सामान्यान्तराSव्यापकमपरम् । परिमाणभेदेन भिन्नेषु बाल्यकौमारादियुक्तशरीरेषु देवदत्तत्वादि । यस्य कस्य चित्सामान्यस्य व्यापकं कस्य चित् व्याप्यं चान्त्यम् । द्रव्यत्वादि यथा । पृथिवीत्वादेघटत्वादेर्व्यापकं सत्ताव्याप्यं च तदित्यन्यत्र विस्तरः ॥

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398