Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 360
________________ पदार्थदीपिका। स्वादिदर्शन: शब्दो नित्यो नित्यो मति द्वितीयः । वादिवि. रुद्धार्थकवाक्याज्जायमानस्तमो द्रव्यं न वेत्यादिस्तृतीयः॥ प्रतियोगिव्यधिकरणतदभाववति सत्प्रकारको निर्णयो वि. पर्ययः ॥ ___ यथा शुक्ताविदं रजतमिति रजतत्वाभाववत्या शुक्तौ त. निर्णयोयं भवत्येव । अयं सः कपिसंयोगीति मूलावच्छेदेन कपिसंयोगाभाववति वृक्षे कपिसंयोगप्रकारकस्य निश्चयस्य सत्त्वादयमपि विपर्ययः स्यात्तद्वारणाय प्रतियोगिव्यधिकरणे. ति । संयोगाभावो हि प्रतियोगिसमानाधिकरणो न प्रतियोगिव्यधिकरणः, साखावच्छेदेन कपिसंयोगस त्वेपि मूलावच्छेदेन कपिसंयोगाभावस्य विद्यमानत्वात् ॥ व्याप्यारोपप्रयुक्तो व्यापकारोपस्तर्कः ॥ ... यथा यदि निर्वन्हिः स्यानिधूमः स्यादिति । वन्ह्यभावो व्याप्यस्तदारोपपयुक्तो व्यापकधूमाऽभावारोपोत्रास्ति । स्वप्न स्तु संशयविपर्ययात्मकं स्मरणमेव दोषवशात्तदिति स्थाने इदमिति नैयायिकाः । वैशेषिकास्तु तर्कस्याहार्यविपर्ययात्मकत्वान्न पृथक् गणयन्तः संशयाविपर्ययस्वप्नानध्यवसायभे. देनाविद्या चतुर्दैत्याहुः । मिद्धामनःसंयोगजं ज्ञानं स्वप्नः । अविदितचरपदार्थदर्शनारिकमेतदितिधीरनध्यवसायः । न चायं संशयः, नानाकोव्यनुल्लेखात् ॥ प्रमा च यथार्थानुभवः ॥ अबाधितार्थविषयं ज्ञानं यथा. थम् ॥ स्वविषयसम्बन्धेन विशेषणवद् विशेष्यविषयकमित्यर्थः । तथा च रक्तः पट इति परम्परया प्रमा, न समवायेन । सा च प्रमा प्रत्यक्षात्मिकैवेति चार्वाकाः । अनुमितिरपीति कणादसुगतौ । उपामितिरपीति न्यायैकदेशिनः । शब्दोपीति नैयायि

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398