Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 365
________________ पदार्थदीपिका। परामर्शो व्यापार इत्याहुः । स्मरणात्मकपरामर्शदसनिकृष्टहे. तुकेप्यनुमितौ तत्र व्याग्निज्ञानस्य पूर्वपरामर्शतजन्यसंस्कारैर्यवधानान्न करणत्वं सम्भवतीति व्याप्तिज्ञानस्य संस्कारसाधारण परामर्शजनकत्वेनैवानामितिकरणतेति नव्या जनकत्वं हि कार णत्वं तच्चानन्यथासिदनियतपूर्ववृत्तित्वं च प्रागभावावच्छिन्नसमवायित्तित्वमतिगौरवास्तमितिन तेन रूपेण कर णता किंतु मन एवानुमितिकरणं परामर्थो व्यापारः । उक्तं च अमेयभाष्ये स्मृत्यनुमित्यादिकरणत्वेन मनः साधितमिति नव्यतराः । ज्ञानत्वेनैवानुमितिकरणता परापर्टी विशेषकारणमिति नातिम्सङ्ग इत्यपि के चित् । न च व्याप्तिग्रहे सति महानसएवानुमी. यताम् वन्हिव्याप्यधूमवानयमिति परामर्शस्य तत्रापि सम्भवादिति वाच्यम् । पक्षताया अप्यनुमितिहेतुत्वात् ।। .. अनुमितीच्छाभावविशिष्टसाध्यनिर्णयाभावो हि पक्षवा ॥ - महानसादौ चानुमितीच्छाविरहसहित एव साध्यनिर्णयोस्तीति न पक्षता । तत्रैवानुमितिर्भवयितीच्छायां पक्षतासम्म त्तये अनुमतीच्छाभावविशिष्टेति विशेषणम् । तथा च पुरुषे सत्यपि दण्डाभावादण्डिपुरुषाभाववत्सादयनिर्णये सत्यपि इच्छाविरहरूपविशेषणाभावाचाश्ननिर्णयाभावरूपा पक्षता भवति । साध्यसन्देहः पक्षता । तदुक्तं भाष्ये । नानुपलब्धे ऽर्थे निर्णीते ऽर्थे न्यायः प्रवर्तते अपि तु सन्दिग्धे इति मते च तत्रानुमितिर्न स्यादिति । तन्न युक्तम् । अकस्माद् घन. गर्जितेन मेघानुमानात्सन्देहाभावपि अनुमितिदर्शनात् । न च धूमो वन्हिव्याप्यो धूमवान् पर्वत इति ज्ञानद्वयमेव हेतुरस्तु कुतः परामर्शोपीति मीमांसककन्दलीकारयोर्मतं युक्तम् । धूमो वन्हिव्याप्य आलोकवान्पर्वते इति ज्ञानादप्यनुमित्यापत्तेः ।

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398