Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 369
________________ पदार्थदीपिका । २५ पादकत्वाद दूषणमयम् ॥ अवृत्तिसाध्य कोनुपसंहारी । आकाशवान् धूमादिति यथा ॥ तुल्यबलसाध्याभावसाधक हेत्वन्तरसहितः सत्प्रतिपक्षः । यथा शब्दो ऽनित्यः कृतकत्वात् घटवत् । शब्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवदिति ॥ 1 पक्षे साध्याभावनिर्णयो बाघ, स्तथाविधो बाधितः । यथा उत्पत्तिकालीनो घंटो गन्धवान् पृथिवीत्वादिति । तत्र प्रमाणान्तरेण गन्धाभावनिर्णयाद्वाधितः । एतेषां सत्प्रतिपक्षासाधारणौ विशेषाग्रहणदशायामेव हेतोराभासत्वापादकत्वादनित्यदोषौ साक्षादनुमितिप्रतिबन्धकौ च । यदा तु तर्कादिना मानान्तरेण व्याप्त्याद्येकत्र निर्णीतं बाधाभावश्चास्तितदा दोषाज्ञापनाच्च । शेषास्तु नित्यदोषाः, बाधादन्ये व्याप्त्यादिविघटकाश्चेति जनकज्ञानविघटकत्वेन दोषा इति नैयायिकाः । वैशेषकास्तु विरुद्धासिद्धसन्दिग्धास्त्रयो हेत्वाभासाः | 'विरुद्धासिद्धसन्दिग्धमलिङ्गङ्काश्यपोब्रवीत्' इति माष्यात् । अनेनासिद्धविरुद्धसन्दिग्धानध्यवसितानामनपदेशत्वमुक्तं भवति इत्यपि भाष्याच्चत्वारो वा । तत्रासिद्धश्चतुर्द्धा उभयासिद्धो ऽन्यतरासिद्धः स्वरूपासिद्धो ऽनुमेयासिद्धश्च । शब्दो नित्यः सावयवत्वादित्याद्यः । कार्यत्वादिति द्वितीयः । पक्षे हेत्वभावस्तृतीयः स्वरूपा सिद्धः | बाधितस्तुरीयः । विरुद्धः प्रागुक्त एव । साधारणो ऽनैकान्तिकः । साध्यतदभाव सहचारेणोभयसन्देहजनकत्वात्संन्दिग्धः । शब्दो नित्यः शब्दत्वादित्यनध्यवसितः । साधारणधर्मदर्शनविप्रतिपश्योरेव संशयजनकत्वेनास्य प्राचीने ऽनन्तर्भा व इत्याहु: । हेत्वाभासानामेकज्ञाने ऽन्यस्याज्ञानेनुपानदूषणस

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398